________________
परि. २ सू. १]
स्याद्वादरत्नाकर सहितः
यथा निरासस्तथा वक्ष्यते । ततश्च क्षीरे दध्यादि यन्नास्तीत्यादिकारिकाग्रन्थः प्रतिक्षिप्तो लक्षयितव्यः । यच्च वस्त्वसंकर सिद्धेश्च तेनाभावप्रमाणतेत्यादि । तदपि न । तस्यापि प्रत्यक्षादिप्रमाणत एव प्रसिद्धत्वात् । कथं प्रत्यक्षादेरभावस्य परिरच्छित्तिरिति चेत् । ननु भावस्यापि कथं ततः परिच्छित्तिः । प्रतिभासाच्चेत् तदितरत्रापि तुल्यम् । न खलु प्रत्यक्षेणान्यसंसृष्टः प्रथमतोऽर्थोऽनुभूयते पश्चादभावप्रमाणादन्यासंसृष्ट इति क्रमप्रतीतिरस्ति । प्रथममेवान्यासंसृष्टस्य भूतलादेरर्थस्य प्रत्यक्षे प्रतिभासनात् । न चान्यासंसृष्टार्थवेदनादन्यत्तदभाववेदनं नाम । एवं च ।
}
१०
प्रत्यक्षादेर्मिन्त्ररूपत्वमाप्तं नाभावाख्यं मानमस्तीह षष्ठम् || यस्य ग्राह्यः प्रागभावाद्यभावः श्रद्धाजिह्मजैमिनीयैर्न्यगादि ॥ ३१० ॥ एतेन प्रत्यक्षानुमानागमोपमानार्थापत्तिषु यथाक्रमं द्वित्रिचतुःपञ्चप्रमाणवादिनां वैशेषिकसांख्य नैयायिकप्राभाउक्त खण्डनातिदेशेन वैशेषिकसांख्यनैयाथिकप्रा- कराणां प्रमाणसंख्याव्याख्याप्रत्याख्यानं कृतमभाकराणां खण्डनम्। वसेपम् । उक्तन्यायस्यात्राप्यविशेषात् ।
३१३
-
" Aho Shrut Gyanam".
१५
ननु नाद्यापि प्रत्यक्ष परोक्षभेदेन प्रमाणद्वैविध्यमवतिष्ठते । सम्भवैति - ह्ययो: : प्रमाणान्तरभावात् । सम्भवो नाम समुदायेन समुदायिनोऽवगमः । यथा सम्भवति सहस्रे
सम्भवैतिह्ययोः प्रमाणा
न्तरत्वस्य खण्डनम् । शतं सम्भवति खार्यां द्रोण इति । अनिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यमितिहोचुवृद्धाः इत्यैतिह्यम् । यथेह वृक्षे यक्षः २० प्रतिवसतीति । तदशोभनम् । सम्भवस्यानुमानेऽन्तर्भावात् । यत्र हि सहस्रं तत्रावश्यं शतं सम्भवतीत्यन्यथानुपपत्तेः पूर्वमेव ग्रहणात् । तथा हि सहस्रं समुद्रार्थि शतवत्सहस्रत्वात् पूर्वोपलब्धसहस्रवत् । एवं खार्यामपि द्रोणानुमानम् । ऐतिह्यं तु न प्रमाणम् । अनिर्दिष्टप्रवक्तकत्वेन सांशयिकत्वात् । आप्तवक्तकत्वनिश्चये त्वागम इति । २५
१' दर्शयिष्यते' इति प. भ. पुस्तकयोः पाठः ।