________________
३१२
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. १ यस्मादिन्द्रियाणामभावज्ञानाजनकतायामभावांशेन सह सम्बन्धाभावो निबन्धनमभिधीयते । तत्र कस्य सम्बन्धस्याभावः । किं संयोगलक्षणस्य योग्यतारूपस्य वा । नाद्यः कल्पः श्रेयान् । संयोगस्येन्द्रियाणां ज्ञानजनकत्वं प्रत्यप्रयोजकत्वात् । चक्षुषः संयोगाभावेऽपि भावांशे ज्ञानजनकत्वस्य प्रसाधयिष्यमाणत्वात् । नापि द्वितीयः । योग्यतालक्षणस्य संबन्धस्येन्द्रियाणामभावांशेऽपि सद्भावाविरोधात् । योग्यता हि कार्यदर्शनावसेया ! कार्य च ज्ञानाख्यमिन्द्रियाणां भावांशवदभावाशेऽपि उपलभ्यत एवेति । एतेन 'ननु भावादभिन्नत्वासम्प्रयोगोऽस्ति तेन चे' इत्याशङ्कय 'न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः' इति यत्समाहितं तदपि प्रतिहतम् । अनभ्युपगतोपालम्भत्वात् । भावांशेऽपीन्द्रियाणां ज्ञानजनकत्वं प्रति संयोगस्याप्रयोजकत्वेनाभिहितत्वात् । न चाप्यनुमानत्वमित्याद्यनुपपन्नमुक्तम् । वयादिकारणामावज्ञानाजायमानस्य धूमादिकार्याभावज्ञानस्यानुमानत्वसम्भ
वात् । यत्त्विन्द्रियादिसामग्रीसमुद्भूतं कुम्भाधभावज्ञानं तस्य १५ प्रत्यक्षत्वेनानुमानत्वमस्माभिरभ्युपगतमेव । यच्चान्यदवाचि मेयो
यद्वदभावो हीत्यादि । तत्र भावरूपेण प्रत्यक्षेण नाभावो वेद्यत इति प्रतिज्ञाऽन्यासंसृष्टभूतलग्राहिणा प्रत्यक्षेण निराक्रियते । अनुष्णाग्निप्रतिज्ञेव तदौष्ण्यग्राहिणा प्रत्यक्षेण । भावात्मके यथा मेये इत्यसम्बद्धम् । अभावादपि भावप्रत्तिपत्तेः । यथा गगनतले पत्रादीनामधः पाताभावाद्वायोरिति । भावाच्च बयादेः शीताभावस्य प्रतीतिः सकललोकप्रतीता ! यो यथाविधः स तथाविधेनैव गृह्यत इत्यभ्युपगमे चामावस्य मुद्रादिभावजन्यत्वाभावः स्यात् । शक्यं हि वक्तुं यो यथाविधः स तथाविधेनं जन्यते यथा भावो भावेन अभावश्चाभाव
स्तस्मादभावेनैव जन्यते । प्रत्यक्षबाधा चान्यत्रापि समाना। प्रागभावादि११ चतुर्विधाभावस्य चाभावप्रमाणविषयतया परैः परिकल्पितस्य
१ एवेत्यधिकं प. भ. पुस्तकयोः।
"Aho Shrut Gyanam"