________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः स्ता । तजन्यत्वेनाभ्युपेतस्य प्रत्यक्षाद्यतिरिक्तस्याभावप्रमाणस्य प्रतिक्षिप्तत्वात् । किं च भूतलादिकं वस्तु प्रत्यक्षेण घटपटादिभिः प्रतियोगिभिः संसृष्टं प्रतीयतेऽसंसृष्टं वा । तत्रायः पक्षोऽनुपपन्नः । प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण प्रतीतौ तत्र प्रतियोग्यभावग्राहकत्वेनाभावप्रमाणम्य प्रवृत्तिविरोधात् । प्रवृत्ती वा न प्रामाण्यम् । प्रति- ५ योगिनः सत्त्वेऽपि तत्प्रवृत्तेः । द्वितीयपक्षे त्वभावप्रमाणवैयर्थ्यम् । प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः । अथोच्यते न संसृष्टं नाप्यसंस्कृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यक्षेण गृह्यते वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति । तदपि दुष्टम् । संसृष्टत्वासंसष्टत्वयोः परस्परपरिहारस्थितिरूपत्वेनैकाँपनिवेधेऽपरविधानस्य १० परिहर्तुमशक्यत्वात् । प्रतियोगिनश्च घटादेः स्मरणमनुभूतस्यैव नान्यथा । अतिप्रसक्तेः । तदनुभवश्वान्यासंसृष्टतयाभ्युपगन्तव्यः । तस्याप्यन्यासंसृध्रताप्रतिपत्तिस्तदन्यप्रतियोगिस्मरणात् । तत्राप्ययमेव न्याय इत्यनवस्था । अथ प्रतियोगिनो भूतलस्य स्मरणाद्धटस्यान्यासंसृष्टता प्रतीयते तत्स्मरणाञ्छ भूतलम्य तदितरेतराश्रयः । तथाहि न १५ यावद्धटासंसृष्टभूभागप्रतियोगिस्मरणाद्धटस्य भूतलासंसृष्टताप्रतिपत्तिर्न तावत्तत्स्मरणाद्भूतलस्म घटासंसृष्टताप्रतिपत्तिर्यावच्च भूतलस्य घटासंसृष्टता न प्रतीयते न तावस्मरणेन घटस्येति । तस्मादन्यप्रतियोगिस्मरणमन्तरेणैवाभावांशो भावांशवत्प्रत्यक्षोऽभ्युपगन्तव्यः । भूतलासंसृष्टघटदर्शनाहितसंस्कारस्य च पुनर्घटासंसृष्टभूभागदर्शनानन्तरं तथाविधघटस्मरणे २० सत्ययात्राभावप्रतिपत्तिः प्रत्यभिज्ञानमेव । यदा तु सर्वं सर्वत्र विद्यते इति दुरागमाहितसंस्कारः सांख्यः प्रतिबोध्यते । यात्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासदिति व्यवहर्तव्यं यथा सत्त्वे रजस्तमसी तथा चात्र घट इति । तदाप्यनुमानमेवेति काभावप्रमाणस्यावकाशः । यच्च न तावदिन्द्रियेणे पेत्याद्युक्तम् । तदपि न युक्तम् । २५
१ रूपति नास्ति प. भ. पुस्तकयोः ।
"Aho Shrut Gyanam"