SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमाणस्य सविस्तरं ३१० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. । अभावप्रमाणं तु प्रत्यक्षादावेवान्तर्भवतीति न तद्वारेणाप्यभिमतप्रमा णसङ्ख्याव्याघातः । यत्तु तत्समर्थनाय प्रत्यक्षादेरमीमांसकसंगतस्याभाव- -- नुत्पत्तिरित्यादि जैचिनीरैरजल्पि । तत्र सात्मनोऽखुण्डनम। परिणामो वेति प्रथमपक्षे किमात्मा सर्वथा ज्ञान रूपेणापरिणतः कथाश्चिद्वा । तत्राद्यविकलो माता में वन्ध्येत्यादिवत् स्ववचनविरोधः । सर्वथा हि यद्यात्मा ज्ञानरूपतया न परिणतः कथभभावपरिच्छेदकः । परिच्छेदस्य ज्ञानधर्मत्वात् । परिच्छेदकत्वे वा कथमसौ सर्वथा ज्ञानरूपता न परिणतः । अथ कथ श्चित् । तथा हि अभावविषयं ज्ञानमस्ति निषेचविषयं तु नास्तीति । १० तर्हि तज्ज्ञानमेवाभावप्रमाणं स्वान्नात्मा । तन्चोन्द्रयान्वयव्यतिरेकानु विधायित्वात्प्रत्यक्षमेव । द्वितीयपक्षे यदन्मवस्तुनि अभावांशे विज्ञान तत्प्रत्यक्षमेव । भावांशवदभावांशेऽप्यक्षाणां प्रवृत्त्याविरोधात् । एतेन मद्भावप्रमाणस्वासाधारणविषयप्रदर्शनाप प्रमाणपञ्चकं बोलादाक्तम् । तदपि प्रत्युक्तम् । प्रत्यक्षादेरभावांशग्राहकत्वोपपत्तेस्त्राभाषप्रमाण१५ कल्पनाया निरुपयोगादिति । यदप्यभावज्ञानस्य प्रत्यक्षताप्रतिक्षेपाय गृहीत्वावस्तुसद्भावमित्याघभिहितम् । तदप्ववद्यम् ! अक्षापेक्षया जायमानत्वेन प्रत्यक्षताया एव तत्रोपपद्यमानत्वात् । यत्तु भूदेशग्रहणजन्मन्येवाक्षाणानुपयोगित्वादक्षापेक्षित्वमन्यथासिद्धमभावज्ञान युक्तम्। तदनुपपन्नम् । न खलु ज्ञानद्वयं क्रमेणोत्पद्यमानभिदमनुभूयते प्रथममि२० न्द्रियजं भूप्रदेशज्ञानं ततः प्रतियोगिल्मरणे सति मानसमिन्द्रियानपेक्षं नास्तिताज्ञानं च । एकस्यैव कुम्भादिविविक्तभूप्रदेशबाहिणो ज्ञानस्थाभावग्राहित्वेनाप्यनुभूयमानत्वात् तस्य चेन्द्रियजत्वेन त्वयापि प्रतिपन्नत्वात् नान्यथासिद्धमक्षापेक्षित्वमभावज्ञानस्य । एवं च भूतलादिवस्तग्रहणघटादिप्रतियोगिस्मरणलक्षणाऽभावप्रमाणजनिका सामग्री निर १'किसात्मवुद्धधसर्वथा' इति प. भ. पुस्तकयोः पाठः । २ . परिणतं ' इति प. पुस्तके पाठः । ३ 'अपि इत्यधिक 'प, भ. पुस्तकयोः। ४ अथेत्यधिक प. भ. पुस्तकयोः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy