________________
३०९
परि. २ स. १] स्याद्वादरत्नाकरसहितः यतः किं प्रमेयमभिमतमत्र भवतां येन तदनुप्रवेशो दोषः स्यात् । किं सत्तामात्रमुत बहिर्देशविशेषणम् । सत्तामात्रं तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते । बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम् । तस्य जीवगृहाभावग्रहणकालेऽनुप्रवेशः कुतस्त्य इति चिन्त्यम् । गृहाभावग्राहकं हि प्रमाण गृह एव सदुपलम्भकप्रमाणा- ५ वकाशमपाकरोति न बहिःसदसत्त्वचिन्तां प्रस्तौति । मृतस्य जीवतो वा दूरे प्राङ्गणेऽपि वा तिष्ठतश्चैत्रस्य गृहाभावपरिच्छेदे विशेषाभावात् । जीवनविशिष्टस्तु गृहाभावः प्रतीयमानो लिङ्गतामनुते । व्यभिचारनिरासात् । न च विशेषणग्रहणमेव प्रमेयग्रहणम् । जीवनमन्यदन्यच्च वहिर्भावाख्यं प्रमेयम् । नतु जीवनयत्नविशिष्टगृहाभावप्रतीतिरेव बहि- १० र्भावप्रतीतिः। न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः । ननु धूमादन्य एव दहनः । इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः । पर्वतहुतवहयोः सिद्धत्वात् मत्वर्थमात्रं हि तत्रापूर्वमनुमेयमेवमिहापि बहिर्देशयोगमात्रम् । यदि तु तदधिकं प्रमेयमिह नेप्यते । तदा गृहाभावजीवनयोरभावागमाख्यप्रमाणाभ्याम- १५ वधारणादानर्थक्यमर्थापतेः । तस्मात्प्रमेयान्तरसद्भावात्तस्य च जीवगृहाभावलक्षणलिङ्गग्रहणसमयेऽननुप्रवेशान्न प्रमेयानुप्रवेशो दोषः । अर्थापत्तावपि तुल्य एवायं दोषः । तत्राप्यर्थादर्थान्तरकल्पनाभ्युपगमात् । “ दृष्टः श्रुतो वाऽर्थो नोपपद्यत" इत्यर्थकल्पनेत्येवं ग्रन्थोपनिबन्धनात् । तम्य तस्मात्प्रतीतिरिति हि यत्र व्यवहारस्तत्रावश्यं तत्प्र- २० तीतौ तदनुप्रवेशो दोष एष । स्वभावहेताविव तद्बुद्धिसिद्धथा तत्साध्यसिद्धेः प्रमाणान्तरवैफल्यादिति ।
१ 'यत्न' इति नास्ति प. भ. पुस्तकयोः। २ 'अधिकरणात्' इति प. पुस्तके पाठः । ३ मीमांसाभाष्ये पृ. ८ पं. १७. ४ ' अन्यथा ' इत्यधिक भ. पुस्तके । ५' नोपपद्य ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"