________________
३०८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ वाऽव्युत्पन्नस्य पूर्वश्रुतवाक्यार्थाविषयानुपपत्तिरुपरमेत । न चैवम् । ततः शब्दाद्भोजनस्य रात्रिसम्बन्धेऽवगत एव तदुपस्तेः । ततोऽर्थस्यैव साक्षादुपपादकत्वमिति न सर्वथा वाक्यखण्डलकविषया श्रुतार्थापत्तिः श्रेयसीति । यच्चापित्तिपूर्विकार्या अर्थापत्तेरुदाहरणं शब्दकर्तृकार्थप्रत्यायनान्यथानुपपत्तिप्रतिपन्नवाचकशक्त्यन्यथानुपपत्त्या शब्दे नित्यत्वकल्पनेति मीमांसकैर्दर्शितम्, तदपि न मीमांसासहम् । वाचकशक्ते नित्यत्वकल्पना प्रत्यन्यथानुपपत्तेरभावात् । पराकरिष्ये च पुरतः शब्दस्य नित्यत्वमित्यलमिह प्रपञ्चेन । अथ भवत्वन्यासामर्थापत्तीनामनुमानान्तःपातोऽभावपूर्विकार्थापत्तेस्तु कथमयमुपपद्यते । उच्यते । जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावानुमानात् । तथाहि जीवतश्चैत्रस्य समन्यभावो बहिस्तद्भावपूर्वको जीवतस्सअन्यभावत्वात् प्राङ्गणे स्थितम्य गृहे जीवदभाववत् । यद्वा चैत्रो बहिरस्ति गृहासंसृष्टजीवनाधारत्वात् स्वात्मवदिति । ननु साधनप्रतीतिसमय एव साध्यस्य
प्रतीयमानत्वेन प्रमेयानुप्रवेशाख्यदोषप्रसङ्गान्नेदमनुमानम् । तथा ह्यागमा१५ वगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते । इतरथा
मृतेनानैकान्तिको हेतुः स्यात् । अभावश्च गृहीतः सन् बहिर्भावं गमयति नागृहीतो धूमवत् । अभावग्रहणं च सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम् । इह च सदुपलम्भके आगमप्रमाणे सति कथमभावः प्रवर्तेतेति सद्मनि प्रवर्त्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमवस्थापयति बहिरस्य भावो गृहे त्वभाव इति । तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः स्पष्टं प्रमेयानुप्रवेशलक्षणो दोषः । अनुमाने तु धूमादिलिङ्गग्रहणसमये मनागपि तदनुमेयदहनादिलिङ्गअनुप्रवेशस्पर्शो न विद्यत इति । नैतर्दुपपन्नम् ।
१' यथार्थापत्ति ' इति प. भ. पुस्तकयोः पाठः । २ . पूर्विका' इति भ. पुस्तके पाठः । ३ 'न' इति नास्ति भ. पुस्तके । ४ ' परिकल्प्य ' इति प. भ. पुस्तकयोः पाठः ! ५ 'स्पष्टः' इति प. पुस्तके पाठः । ६ 'एतद्' इति नास्ति प. पुस्तके ।
"Aho Shrut Gyanam"