________________
परि. २ सू. १] स्याहादरत्नाकरसहितः इत्यतस्तत्पीनत्वेप्रतीतिर्न भवति । ननु भवति साकासा तु भवति न च साकाङ्प्रतीतिकारिणस्तस्य प्रामाण्यमिति तदेव तावत्पूरयितुं युक्तमिति चेत् । तदपि न परीक्षाक्षमम् । यतः कस्यात्र साकाङ्त्वं शब्दस्य तदर्थस्य तदवगमस्य वा ! शब्दस्य तावदर्थनिरपेक्षस्य न कदाचिदाकाङा । अनभिव्यक्तशब्दवत् । अर्थस्तु साकारः सन्नर्थान्तर- ५ मेव कल्पयतु किं फलं वचनकल्पनायाः । अवगमोऽप्यर्थगोचर एव साकाडो भवति न शब्दगोचरः श्रवणकरणकः । तस्मादयगमनैराकाकुथसिद्धये तदर्थकल्पनैव साधीयसी । वाक्यखण्डलककल्पनापि ह्यावगतिसिद्धयर्थमित्यर्थकल्पनैवास्तु किं सामान्वान्तरेण । अथ कल्प्यमानस्यार्थस्या नागमिकत्वं प्रामोतीत्युच्यते । तर्हि वाक्यशकलकल्पनापक्षे १० सुतरामनागमिकः सोऽर्थः स्यात् । कल्प्यमानस्य तस्यागमादन्यत्वात् । श्रुतोऽनुभितश्च द्वेषाऽयागम एवायमिति चेत्, श्रौतश्चै श्रौतार्थानुमितश्च द्विप्रकारोऽध्यागमार्थ एव भविष्यत्यसौ किं वाक्यांशविधानेन । तेन श्रूयमाणागमवचनप्रतिपाद्यार्थसामर्थ्यलभ्यत्वादेव तस्थागमार्थता भविष्यतीत्यर्थ एव कल्पचितुमुचितः । अपि च यस्मिन्नकल्पितेऽ- १५ नुत्पत्तिस्तदर्थापत्या प्रमीयते । रात्रिसम्बन्धे चानवगते भोजनस्यानुपपत्तिः । कालसम्बन्धाभावेन ह्येषानुपपत्तिः सा कालान्तरसम्बन्धमेव कल्पथितुमलम् । अथार्थसद्भावमेव कल्पयितुमर्थापत्तिः प्रवर्तमाना तस्य सविकल्पकज्ञानवेधत्वात् सविकल्पकज्ञानानां च शब्दपुरस्सरत्वात् पुरोवर्तिनि शब्द एव पर्यवस्यति । स च शब्दः स्वार्थमुपस्था- २० पयतीति । तदसम्यक् । एवं सविकल्पकप्रत्यक्षानुमानोपमानादेरपि प्रामाण्यस्य सकलस्य शाब्द एव पर्यवसानप्रसङ्गात् । यदि च शब्दमात्रमुपपादकमुच्यते । तार्ह पीनो देवदत्तो दिवा न भुङ इति यदा प्रयुज्य पुनरेवभुच्यते यामिन्यामत्तीति । तदा यामिनीशब्देऽत्तिशब्दे
१. पनिताप्रतिपत्ति ' इति प. पुस्तके पाठः । २ ' अर्थास्तु' इति प. भ. पुस्तकयोः पाठः । ३ 'थ' इति नास्ति प. भ. पुस्तकाः ।।
"Aho Shrut Gyanam"