________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः .
३०३ तु नातीन्द्रियकल्पनया परिणीताभिजातकान्तयेव त्यज्येत तद्वरं शक्तिः कल्पितास्तु । न चेदं शक्तावपि समम् । तस्यास्तस्याः प्रध्वंसस्योक्तत्वात् ।
यत्रास्यां शक्तिसंसिद्धौ मजत्युदयनद्विपः ।।
जयन्त हन्त का तत्र गणना त्वयि कीटके ।। ३०६॥ ५ तदेव स्वरूपसहकारिशक्तिरूपादृष्टहेतोरेव स्फोटादिकार्यमघटमानमतीन्द्रियां शक्तिं सप्तार्चिषः समर्पयति । ये त्वस्यामन्यथानुपपत्तौ सत्यां ने तां स्वीकुर्वते महासाहसिकास्ते । यद्वा, मेघे चारुशचीशचापरचनारोचिष्णुचित्राञ्चिते
चञ्चत्कजलकालकान्तिकलिते कामं तथा गर्जति ।। किं काकः कुरुते कदापि किमपि प्रोल्लासिलास्योत्सव
किं वा कोमलकण्ठनाललुलितं केकीव केकायितम् ॥३०७॥ यच दहनादयः स्वरूपसहकारिरूपदृष्टशक्त्यतिरिक्तभाजो न भवशक्तिप्रतिक्षेपकानुमानस्य न्तीत्याद्यनुमानमवादि । तत्र स्वरूपसहकारि
खण्डनम् । शक्त्योदृष्टत्वं प्रत्यक्षापेक्षया विवक्षितं प्रमाणान्तरा- १५ पेक्षयापि वा । प्रथमपक्षे सकलकार्योत्पतिसहकारित्वेन स्वीकृतस्य प्रामाण्यदृष्टस्यापि प्रत्यक्षानुपलक्ष्यत्वेन दृष्टत्वाभावात् प्रतिषेधः स्यात् । अथ प्रमाणान्तरापेक्षयापि दृष्टत्वं विवक्षितम् । तथा चादृष्टस्यानुमानप्रमाणेन दृष्टत्वात्तदतिरिक्ताया एव शक्तेरभावः साध्यत इति चेत् । तर्हि सिद्धसाध्यता । प्रमाणपरिदृष्टेभ्योऽतिरिक्तशक्तेरस्माभिरप्यमावा- २० भ्युपगमात् । न खलु प्रामाणिकः कश्चित्प्रमाणपरिदृष्टादतिरिक्त वस्तु स्वीकरोति । कथितं च तत्साधनाय स्फोटान्यथानुपपत्तिरनुमानमनन्तरमेव । कार्योत्पादकत्वरूपो हेतुरपि सोपाधिः । अतीन्द्रियशक्त्यभावे द्रव्यत्वाभावस्यैव प्रयोजकत्वात् । श्यामत्व इव शाकाद्याहारपरिणतेः ।
१' अपि ' इत्यधिकं प भ पुस्तकयोः ।
"Aho Shrut Gyanam"