________________
३०४
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ स. १
ततो यथा यत्रैव शाकाद्याहारपरिणतेः सद्भावः सत्यपि तत्पुत्रत्वे तत्रैव श्यामत्वमेवमिहापि यत्रैव कर्मादौ द्रव्यत्वाभावः सत्यपि कार्योत्पादकत्वे तत्रैव शक्त्यभाव इति । द्वितीयानुमानेऽपि सर्वप्रमाणैरनुपलभ्यमानार्थत्वादिति हेतुरसिद्धः । तत्साधकस्यानुमानस्य दर्शितत्वात् अपि च सर्वप्रमाणैर्भवानेव नोपलभेत शक्तिशब्दस्यार्थ किं वा सर्वमपि जगत् । प्रथमपक्षे व्यभिचारी हेतुः। यदि नाम भवतस्तत्र न प्रमाणानि प्रवृत्तानि तत् किमेतावता तस्या अभावो भवतु । भावत्कप्रमाणसत्तायाः पदार्थसत्तां प्रति व्यापकत्वाभावात् । द्वितीयपक्षे तु सन्दिग्धासिद्धः । सर्वस्यापि प्रमातुस्तत्र प्रमाणं न प्रवर्चत इति असर्वविदा निश्चेतुमशक्तेः । तृतीयानुमानेऽपि पार्थिवाप्यद्रव्याभ्यां व्यभिचारी हेतुः । ते हि चाक्षुषत्वे सति हेतू भवतो न च स्वैकसमवेतातीन्द्रियकार्याकर्तणी । गुणत्वगुणस्य तादृशस्य ताभ्यां निवर्तनात् । व्यर्थविशेष्यश्चायम् । चाक्षुषत्वविशेषणमात्रादेव साध्यसिद्धेः । न खलु चाक्षुषं किंचित् स्वैकसमवेतातीन्द्रियकार्यकारि समुपलब्धं ययवच्छेदाय हेतुत्वमुपन्यस्येत । वड्यादिकमित्यत्राप्यादिशब्देन समस्तं विवादास्पदं द्रव्यं धर्मित्वेन यद्यभीप्सितम् । तदा पक्षकदेशासिद्धता हेतुविशेषणस्य । पक्षीकृताशेषद्रव्याणामेकदेशे वायुव्योमादौ चाक्षुषत्वविशेषणाभावात् । अथ पृथ्वीपाथोरूपमेव द्रव्यमादिशब्देना
भिप्रेतमिति नोक्तदोषावकाश इति चेत्, तीव्यापिनी शक्त्यभावसं૨૦ सिद्धिः । तन्नेदमप्यनुमानं साधु ।
हेहो न्याय्यं न्यायशास्त्रप्रवीणाः शक्तेर्ययं बाढमत्र द्विषन्तः ॥ सर्वेभ्यो यद्भीतभीतेव युप्मन्नष्टा शक्तिः शक्त्यभावप्रसिद्धौ ॥ ३०८॥ यञ्चोक्तं शक्तिनित्याऽनित्या वेत्यादि । तत्र नित्यानित्यां शक्तिं
ब्रूमः । द्रव्यरूपतया नित्यत्वस्य पर्यायरूपतयाऽ२५ पूर्वकं शक्तेनित्यानित्य- नित्यत्वस्य तत्र जैनैरभ्युपगमात् । यत्पुनरस्था
रूपताया व्यवस्थापनम्। उत्पत्तौ कारणं विकल्पितम् । तत्र दहनस्वरू
१ 'उपलभते' इति प.पुस्तके पाठः। २ 'उत्पत्ति' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"