SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः । ३०१ स्थायामपि भावात् । ननु किमियं शक्तिरपि प्रेक्षाचक्षुः । यत्स्वोत्पायशक्त्यनास्कन्दित एव दहने तामादधाति । ननु किं बीजमपि प्रेक्षाचक्षुर्यत्सहकारिनिकरपरिकरितमेवाङ्गुरं करोति । स्वभाव एवायमीगस्येति पुनरत्रापि सुप्रापम् । नन्वसौ शक्तिसमुत्पादिका शक्तिः कुतः समुत्पद्यते । यत एव जातवेदाः । स हि तया सहित एव स्वहेतोरुप- १ जायते । यत एवासौ विनश्यति तत एव सापि । ततो न प्रतिबन्धकाद्यावव्यभावित्वात्तस्याः । ननु स्फोटादिजनिका शक्तिः शक्त्यन्तरसहकृता कार्य करोत्यन्यथा वा । आधे कल्पेऽनवस्था । द्वितीये तु शक्ति. स्फोटादिजनिका शक्तिः शक्त्यन्तरसहकता कार्य वत्पदार्थस्वरूपमेव निःशक्तिक कार्यकारि समस्तु १० करोत्यन्यथावेति विक- किं शक्त्या कृत्यम् । एतदप्यसत्यम् । ल्पपूर्वक खण्डयितुः पराकरण क्षित्यादिसहकारिण्यपि समानत्वात् । तथाहि क्षितिः क्षित्यन्तरसहकृताङ्करं करोत्यन्यथा वा । प्रथमेऽनवस्था । द्वितीये क्षितिवटीजमेव क्षितिक्षुण्णमङ्करकारि समस्तु किं क्षित्या कृत्यम् । अथ सदैव विश्वम्भरास्वरूपसह कारिपरिचितं बीजमङ्कुरमारचयद्वि- १५ लोकितमिति कथं तामन्तरेण तस्याङ्गुरकरणकौशलमित्युपगममहासाहसं कर्तुमीश्महे इति चेत् । ननु भवतु क्षितिरूपे प्रत्यक्ष सहकारिणीदमुत्तरम् । अत्यक्षे पुनरदृष्टे किं वक्ष्यसि । न च सहकारीदमङ्कुरोत्पत्ताविति वाच्यम् । सर्वोत्पत्तिमतामदृष्टसहकारिवशादुत्पत्तेस्त्वया स्वीकारात् । अपि च शक्तिः शक्त्यन्तरसहकृतेत्यादिविकल्पपरिकल्प- २० नेन शक्तेरुन्मूलने क्रियायामपि का ते प्रतिक्रिया । तथा हि यदा कयाचिक्रियया कश्चिकिमपि फलमुत्पादयितुमभिलषति तदासौ क्रियापि क्रियावती फलोत्पादाय कल्प्यते अन्यथा वा । आयेऽनवस्था । द्वितीये तु देवदत्तादिरेव फलोत्पादकोऽस्तु किं क्रियया । अथ क्रियाया अभावे विवक्षितकालादन्यदापि फलोत्पत्तिः स्यादतोऽस्त्येव क्रिया । न २५ चास्यां क्रियान्तरमुपेयम् । तदुपगमे हि तस्या द्रव्यत्वप्रसङ्गो बाधकं "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy