________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ स्यात् । अथ दाहकारिशक्त्युत्पादिका शक्तिः प्रतिबन्धकावस्थायामप्यस्ति । तर्हि तदानीमेवासौ स्फोटघटनलम्पटां शक्तिं किमिति नोत्पादयति । किं प्रतिबन्धकामावस्य सहकारिणोऽभावादभिभूतत्वाद्वा ।
आये कल्पे प्रतिबन्धकाभाव एव सर्वत्र सहकारी कल्प्यतां किमती५ न्द्रियशक्तिकल्पनाकलङ्केन । द्वितीये तु कोऽस्या अभिभवः । कार्योत्पत्त्यनाभिमुख्यमिति चेत् । तदपि पदार्थस्वरूपस्यैवास्तु किमनया । यदि चास्मत्पक्षे प्रकामं प्रद्विष्टाः शक्तिकल्पनेऽवगाढममिनिविष्टाः। तथापि स्फोटोत्पादिकैव शक्तिस्तदानीमभिभूतास्तु किमनेनाञ्जनातनयलाङ्कलदण्डाडम्बरविडम्बना शक्त्यन्तरेण ।
भाति तवैष वयस्य वितर्कः कर्कशतर्कवितर्कपटूनाम् ॥ .
निर्भरदुर्भगदुर्गतरामाविभ्रमभाङ्गिशतेन समानः ॥ ३०५ ॥ . तथा हि यदुक्तम् , प्रतिबन्धकावस्थायां शक्त्यन्तरमस्ति न वेति । तत्रास्तीति नः पक्षः । यतूक्तं तदानीमेवासौ स्फोटघटनलम्पटां
शक्तिं किमिति नोत्पादयतीति । तदप्युक्तम् । तदानीमपि तस्यास्तया १५ समुत्पादनात् । यदि तदानीमपि तयाऽसौ समुत्पाद्यते कथं न कार्य
जन्मेति चेत् । कार्यकरणक्षणे प्रतिबन्धकेन तस्याः प्रध्वंसात् । तज्जनिकाऽपि शक्तिः कथं न तेन प्रध्वस्यते इति चेत्, तदा कुडथकाण्डपटादिना प्रभावयवीव तज्जनको रत्नावयव्यपि किमिति
न प्रध्वस्यते इत्यभिधेयम् । तस्य ततो दूरदेशस्थत्वादिति चेत् । २० निकटस्थे तस्मिन् किमुत्तरं वितरसि । प्रभावयविनैव सार्द्ध तस्य
विरोधित्वादिति चेत् । तर्हि स्फोटोत्पादकशक्त्यैव साकं प्रतिबन्धकस्य विरोधात् तस्या एव तेन निरोध इति तुल्यम् । कथमसौ तदानी तामुत्पादयतीति निश्चीयते इति चेत् । अविकलत्वात्तस्याः ।
यदा हि कारणमविकलन्तदा स्वकार्यमर्जयमेव । अविकलत्वमपि २५ कुतो निश्चितमिति चेत् । तस्याः शक्तिस्वरूपकार्योपार्जने स्वोत्पाद्य
शक्त्यनास्कन्दितदहनसत्तामात्रापेक्षत्वात् । तस्य च प्रतिबन्धकाव
"Aho Shrut Gyanam"