________________
परि, २ सू. १] स्याद्वादरलाकरसहितः तस्य प्रतिबन्धे चैकस्मादेव मणिमन्त्रादेः सर्वस्याः शक्तेः प्रतिबन्धः स्यादिति चेत् । नैतञ्चतुरस्रम् । योग्यतालक्षणसम्बन्धवशाद्योग्याया एवास्यास्तेन प्रतिबन्धोपपत्तेः । न खलु चुम्बकस्यापि प्रतिनियतलोहाकर्षणे तेन समं योग्यतातोऽन्यः सन्निकर्षादिः सम्बन्धोऽस्ति । योग्यताया अनङ्गीकारे च कथमेतदपि घटेत । यदुत, कश्चिद्योगसमृद्धिलब्धविलसन्निःसीममाहात्म्यवान्
विद्यावेशविशेषसिद्धतिलकालङ्कारसंस्कारतः ।। एकां कामपि कामकार्मुकलतासंवादिनी कामिनी___ माकर्षत्यखिलास्तु न त्रिभुवनक्रोडान्तराध्यासिनीः ॥३०४॥
ननु वह्नः शक्तिर्नष्टा सती प्रतिबन्धकोत्तरकालं कुतः समुत्पद्यते । १० यत एव शक्त्यन्तरसहिताद्वह्निस्वरूपात्परिणामिकारणात्प्रथमं तत एवेति ब्रूमः । यदि शक्त्यन्तररहितादेव प्रतिबन्धकोत्तरकालविशिष्टाद्वह्निस्वरूपात्समुत्पत्स्यते तदा को दोष इति चेत् । न कश्चिदन्योऽनियतहेतुकत्वात् । एवं हि कल्पने दाहशक्तिजनकशक्यन्तरस्य सर्वथाऽभावात्पूर्व वह्नयुत्यादककारणेभ्यः सम्प्रति तु वह्रिस्वरूपात्त- १५ दुत्पत्तिप्रसक्त्याऽनियतहेतुकत्वम् । देशकालयोश्च यदि न शक्त्यन्तरमस्ति तदा कथं तौ सहकारिणौ स्याताम् । कुम्भादेरपि सहकारित्वापत्तेः । शक्त्यन्तरसाहित्ये तु यान्येव कारणानि दहनस्वरूपदेशकालादीनि तेनैकेन शक्त्यन्तरेण शृङ्खलेनेव समाकलितान्येव स्फोटादिकां शक्तिं घटयतीति कुतोऽनियतहेतुकत्वम् । ननु तच्छक्त्य- २० न्तरं प्रतिबन्धकोपस्थानावस्थायामप्यस्ति न वा । नास्ति चेत् । कुतः प्रतिबन्धकोत्तरकालमुत्पद्येत । कालादेः शक्त्यन्तरशालिनो ज्वलनादेर्वा । कालादेश्चेत् । दाहोत्पादकशक्तिरपि तत एवास्तु किं शक्त्यन्तरसङ्गतेन दहनेन । शक्त्यन्तरशालिनो ज्वलनादेव तदुत्पादस्वीकारे तु तदपि शक्त्यन्तरसङ्गतादेव वढेरुत्पत्तिमदङ्गीकर्तव्यम् । २५ तदप्येवमित्यनवस्थानान्न . कदाचित्प्रतिबन्धकोत्तरकालं कार्योत्पत्तिः
"Aho Shrut Gyanam"