________________
२९८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ विकल्पावकाशश्च । तद्धर्मविनाशे वा पुनरुत्तम्भकेन तजननेऽनियतहेतुकत्वम् । पूर्व स्वरूपोत्पादकादिदानीमुत्तम्भकात्तदुत्पत्तेः । न च समानशक्तिकतया तुल्यजातीयतया नैवमिति साम्प्रतम् । विजातीयेषु समानशक्तिनिषेधात् । न च प्रतिबन्धकशक्तिमेवोत्तम्भको ५ निरुणद्धि न तु भावशक्तिमुत्पादयतीति साम्प्रतम् । तदनुत्पाद
प्रसङ्गात् । कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वं सम्पद्यते " इति । तत्र शक्तिनाशपक्ष एवं कक्षी क्रियते । यत्पुन: पुनस्तदुत्पादेऽनियतहेतुकत्वमकथि । तन्न तथ्यम् । उत्तम्भकाच्छक्त्युत्पत्तेरनभ्युप
गमात् । तस्य प्रतिबन्धकशक्तिसंहार एवं व्यापारात् । शक्तसप्तार्चिः १० स्वरूपादेव हि परिणामिकारणादसौ सम्पद्यत इति वक्ष्यते । नन्वस्तु
सप्ताञ्चिरेव परिणामिकारणं शक्तेः किन्तु तत्र कालोऽपि सहकारी कथ्यते सकलकार्योत्पत्तावेतस्य सहकारित्वेन स्वीकृतत्वान्न चास्यामिना साकमेकं किञ्चिद्रूपं शक्तिजनकमस्ति विजातीयत्वादिति कुतो
नियतहेतुकत्वमिति चेत् । असदेतत् । कालस्यामिना साकं समान१५ शक्तिकतया तुल्यजातीयत्वसम्भवात् । यत्तु विजातीयेषु समान शक्तिनिषेधादित्यभिधायि । तत्र विजातीयत्वं सर्वथा घटितं कथञ्चिद्वाभिप्रेतम् । नाद्यः पन्थाः । सर्वथा विजातीयस्य कस्यचिदभावात् । जलज्वलनयोरपि द्रव्यत्वादिना समानजातीयत्वात् । द्वितीये
तु पथि न कथंचित्समानजातीयताप्रतिक्षेपः । कथंचिद्विजातीयतायाः २० कथंचित्समानजातीयत्वाविनामावित्वात् ।
हन्त नूतनतमोक्तिमुद्रया किं तवोदयन तत्सखेऽनया ॥
या विदग्धघटितं न मृप्यते तर्ककर्कशवितर्कबर्बरम् ॥३०३॥ ननु प्राप्य शक्ति प्रतिबन्धकः प्रतिवध्नात्यप्राप्य वा । न ताव
प्राप्य । शक्तिमतो मणिमन्त्रादिनाऽप्राप्तौ विताना परकीयाधि- तेनास्याः प्राप्तेरयोगात् । न हि हस्तेन पटाक्षेपाणां खण्डनम् । प्राप्तौ तद्तरूपादेः प्राप्तिः सम्भवति । अप्रा
विकर
"Aho Shrut Gyanam"