________________
२९७
परि. २ सू. ११ स्याद्वादरत्नाकरसहितः
२९७ ततोऽभिमन्त्रितस्यैव तस्यादाह इति चेत् । तदसम्बद्धम् । विवक्षितदहनादाह्यस्य करतलस्य दहनान्तरेणाप्यदाहप्रसङ्गात् । अथ बादरदहनाभिप्रायप्रयुक्तमन्त्राभिमन्त्रितकरतलस्य प्रतिनियतदहनापेक्षयैव क्षीणा शक्तिः । अस्त्वेवं तथापि प्रतिबन्धकाभावे सति कुतस्तेनैव कृशानुना तस्यैव करतलस्य दाहः स्यात् । तदानीमन्यैव शक्तिः संजातेति ५ चेत्, ननु सा जायमाना प्रतिबन्धकाभावात्तदितरदृष्टदेशादिकारकचक्रादृष्टार्थान्तराद्वा संजायेत, न प्रथमः पन्थाः । तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यात् । नापि द्वितीयः । तदितरदृष्टदेशादिकारकचक्रस्य प्रतिबन्धककालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गात् । नापि तृतीयः । अदृष्टार्थान्तरनिमित्ताकल्पने तत एव १० स्फोटोदयप्रसङ्गात् इति । तदेतदस्य तुण्डमण्डपाडम्मरपाण्डित्यमात्रम् । तथाहि प्रतिबन्धकेन दहनस्यैव शक्तिविनाश्यते । न च दारुतृशादीनामपि दहनशक्तिः । दाह्यानेकत्वेन शक्तीनामनेकत्वस्याभ्युपगमात् । न च कल्पनागौरवातकः कर्त्तव्यः । प्रमाणोपपन्नवस्तुविषयत्वेन कल्पनागौरवस्यादोषत्त्वात् । तथा चाहुः, “प्रमाणवन्त्यदृष्टानि १५ कल्प्यानि सुबहून्यपि " इति । यद्वास्तु करसलस्यैव दास्ताशक्तेविनाशः। यत्पुरुनरस्याः पुनरत्पत्तौ कारणं विकल्पितम् । तत्प्रकटयिष्यमाणकृपीटयोनिस्फोटघटनपटीयःशक्तिसमुत्पादककारणानुसारेण विचिन्तनीयम् । यत्पुनरुदयनेन न्यगादि, " किं प्रतिबन्धकेन शक्तिर्विनाश्यते २०
तद्धर्मो वा धर्मान्तरं वा जन्यते न वा उदयनमतमुद्भाव्य
1 किमपीति पक्षाः । तत्राकिंचित्करस्य प्रति
बन्धकत्वानुपपत्तिः । विपरीतधर्मान्तरजनने तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादि
तत्खण्डनम् ।
१'अदृष्टार्था' इति म. पुस्तके पाठः । २ 'निमित्तकल्पने' इति म. पुस्तके पाठः। ३ न्यायकु. प्र. स्त. पृ. ४९ पं. १.
"Aho Shrut Gyanam"