________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. २ सू. १
यथासम्भवं सहकारि ततस्तदानीं प्रतिबन्धकाभावसद्भावान्न देहदहनाभावः । नन्वित्थमप्यनियतहेतुकत्वं दाहादेस्यात् । न च प्रतिबन्धकाभावोत्तम्भकयोः प्रागभावप्रध्वंसयोरिवकं किञ्चिद्रूपं सम्भवति येन नियतहेतुकत्वं दाहस्य स्यात् । तथायमुत्तम्भकोऽसत्प्रतिपक्ष एवोत५ म्भकत्वमा कलयत्यन्यथा वा । प्रथमपक्षे प्रतिबन्धकत्तम्भकसद्भावे सत्प्रतिपक्षत्वेन प्रतिबन्धकस्याप्रतिबन्धकत्वादसत्प्रतिपक्षत्वेनोत्तम्भकस्योत्तम्भकत्वात्प्रतीबन्धकाभावोत्तम्भकयोः [: सद्भावात् किमयं कृपीटयोनिर्जनयतु दहनम् । किं वा पूर्वोक्तयुक्त्या प्रथमप्रतिबन्धकस्यापि प्रतिपक्षत्वसिंद्धेः सत्प्रतिपक्षत्वेनोत्तम्भकस्यानुत्तम्भकत्वमत एवैतदपेक्षया प्रथम१० प्रतिबन्धकस्य सत्प्रतिपक्षत्वासिद्धेः प्रतिबन्धकत्वं चेत्युभयथोत्तम्भकभावप्रतिबन्धकाभावयोरभाषान्माजीजनदिति त्वयि न्यायमुद्राधिकारिणि मुद्रितास्य जनकत्वाजनकत्वव्यवस्था । द्वितीयपक्षेऽपि यथा प्रतिबन्धकसद्भावेन सत्प्रतिपक्षस्याप्युत्तम्भकस्योत्तम्भकत्वं स्वीक्रियते तथाऽपरप्रौढप्रतिबन्धकसद्भावेऽपि किं न स्वीक्रियते । स्वीकारे तु १५ कार्योत्पादप्रसङ्गः । तन्नातीन्द्रियशक्तिस्वीकारमन्तरेण कश्चन सहकारी सूपपादः । तदङ्गीकारे तु सर्वसु
-
।
अन्यः प्राह, " प्रतिबन्धकस भिधाने शक्तेः प्रतिबन्धस्तावत्त्वप्रतिबन्धकेन शक्तिनाशे याऽपि प्रोच्यते । स च यदि शक्तेर्विनाशः । तर्हि दास्तृणादीनामप्यदाह प्रतिबन्धकेन दहनस्य दहनसामर्थ्य दलिते दारुतृणादीनामप्यदहनप्रसङ्गः । ततश्च स्वाश्र
इति परमसमाशंक्य तत्खण्डनम् !
यस्याप्यदहनादहनस्य निर्वाणत्वापत्तिः” । अथ करतलदाहाभिप्रायप्रयुक्तत्वान्मन्त्रस्य करतलदाहशक्तिरेव वहेर्विनश्यति । तर्हि करतलदाहशक्तौ विनष्टायामनभिमन्त्रितकरतलस्य तेन दहनं न भवेत् । अथ मन्त्रेण करतलस्यैव दाहशक्तिर्दाता परपर्याया विनाश्यते 6 उभयथा' इति नास्ति
१' प्रसिद्धेः' इति प. म. पुस्तकयोः पाठः । २ प. भ. पुस्तकयोः ।
२९६
२०
"Aho Shrut Gyanam"