________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः कार्योत्पादः। असत्प्रतिपक्ष एव प्रतिबन्धो भवतीति चासत्प्रतिपक्षप्रतिबन्धकपराकरणेनेव निरस्तम् । तेन समानयोगक्षेमत्वात् । तस्मान्न मणिमन्त्रादेः प्रतिबन्धत्वं तत्प्रयोक्तुः प्रतिबन्धकत्वं युक्तम् । अपरः पुनराह । “ मन्त्रोच्चारणव्यापारावच्छिन्नमान्त्रिकाभिप्रायावच्छिन्नः कालविशेषः प्रतिबन्धक ” इति । सोऽपि स्वगृहसारं विस्मृत्यैवं व्याजहार । तगृहे कालस्यैकत्वेन वर्णनात्तद्विशेषाणामनुपपत्तेः । अथैवमेवैतत्स्वरूपापेक्षयोपाधिविशेषापेक्षया पुनर्दरपह्नवा अस्य विशेषा इति चेत् । न । स्वरूपतः सर्वथा विशेषाभावे उपाधिविशेषसहस्रापेक्षयापि विशेषासम्भवात् । न हि विहायः स्वभावेनादाहकं पायकप्रमुखोपाधितोऽपि दाहकं भवति । कल्पिता विशेषाः स्युः किं पुनस्तेभ्यः पार- १० मार्थिकार्थव्यवस्था सङ्गच्छते । न खलु कल्प्यपावकत्वान्माणवकात्पारमार्थिकपाकादिक्रियानिप्पत्तिरुपलब्धचरी । तत् किं विशिष्टादृष्टाधिष्ठितकर्णशष्कुल्यवच्छिन्ननभोदेशस्वभावं श्रोत्रमपि शब्दोपलम्भार्थक्रियां माकार्षीत् । ओमिति ब्रूमः । दृष्टा ताबदियमभ्रान्ता चेति चेत् । ननु न वयमेतामषड्गुमहे । किन्तु नैतादृशेन श्रोत्रेणासौ कर्तुं पार्यत १५ इत्याचक्ष्महे । यादृशं च श्रोत्रं तत्र कल्प्यते तादृशमचिरेणैव वक्ष्यामः। तथा प्रतिबन्धकेन स्तम्भितम्य विषस्य भक्षणे पश्चात्प्रतिबन्धकनिवृत्तौ मरणप्रसङ्गः। अत्र हि प्रतिबन्धकेन रसाभावः क्रियते अतिशयान्तरं वा नाद्यः पक्षः। नीरसत्वस्य विषेऽनुपलम्भाद्रसस्य तत्र प्रत्यभिज्ञायमानत्वात् । नाप्यतिशयान्तरम् । अदृष्टकल्पनाप्रसक्तेः । यदि त्वतिशयः कश्चिदतीन्द्रियः २० कल्प्यते तदा तथाविधशक्तिकल्पने को विद्वेषः । ततो न प्रतिबन्धकाभावः सहकारी वक्तुं युक्तः । अथ माभूदयं सहकारी उत्तम्भकसद्भाव एव सहकारी भविष्यति । नन्वेवं कथं केवलावस्थायां स्थलज्वालाकलापकरालोऽपि ज्वलनो जनयतु देहदहनम् । उत्तम्भकस्य सहकारिणस्तदानीमभावात् । अथ प्रतिबन्धकाभावोत्तम्भकसद्भावाख्यमुभयमपि २५
१ च ' इत्यधिकं भ. पुस्तके । २ 'स' इत्यधिकं प. पुस्तके ।
"Aho Shrut Gyanam"