________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. १
}
बन्धबन्धो विधीयतां स्नेहानुबन्धः । समनुभूयतां सज्जनसमालिङ्गनादिप्रमोदसत्पर्यः किमत्र संत्रासेनेति प्रमोदनिर्भरं भाषसे । किं च इक्ष्वाकुक्षिकुम्भ भुजगाकर्षणादिव्यमपि नासौ प्रतिबन्धकः किन्तु प्रदीपभिन्न एवायमित्यर्थे साक्षिभावं भजते । অथ १ ५ देशकालादृष्टेषु सन्निहितेषु सत्सु पुरुषादिदृष्टकारणेनानुपढौकितः प्रतिबन्धस्तिष्ठति तत्र तेषां प्रतिबन्धकत्वं प्रतिपद्यामहे । यत्र तु तदुपढौकितस्तत्र तस्य तेषां तदिह च देशकालादृष्ट्वाः प्रतिबन्धका भविष्यन्ति माभूत्पुरुष इति चेत् तर्हि यस्मिन् दहने सन्निहिते सति प्रतिबन्धस्तिष्ठति स स्वयमेव प्रतिबन्धक इत्यपि १० किं नास्थीयते । अथ प्रतिबन्धक्रियाविदधानस्य प्रतिर्थेन्धस्यौषध्यादेः प्रतिबन्धकक्रियाविषयतया सहकारिकारणं दहनः कथं प्रतिबन्धकः स्यात् । तर्हि देशकालादृष्टा अपि तस्य तामादधतः स्ववस्थानहेतुतथा सहकारिणः कथं प्रतिबन्धकाः स्युः । ततो न मणिमन्त्रादिप्रतिबन्धप्रयोक्ता प्रतिबन्धको युक्तः । अपि च यो यस्यान्वयव्यति१५ रेकावनुविधत्ते स तस्य कार्यम् । नच स्फोटादिकार्यं प्रतिबन्धकाभावस्य तावनुविधत्ते । प्रतिबन्धकसद्भावेऽपि ह्युत्तम्भकप्रयोक्तृसन्निधाने कार्य जायते । यदा च कश्चित्प्रतिबन्धकमणिं वह्निसन्निधौ विधाय स्वयमयासीद्देशान्तरम् । तदा तत्र प्रतिबन्धकाभावसद्भावेऽपि नोपजायते । अथ माभूद्देशान्तरेऽपि सन्नसौ प्रतिबन्धको भविष्यति । एवं २० तर्हि केनचित्प्रतिबन्धकमणेरुत्सारणेऽपि तस्य देशान्तरे सत्त्वात्कुतस्त्यः कार्योत्पादः । अथ यावद्यत्प्रयुक्तः प्रतिबन्धः सन्निहितो भवति तावदसौ तत्रस्थो अन्यदेशस्थो वा प्रतिबन्धक एवेति चेत् तर्हि सति सन्निहिते प्रयुक्ते प्रतिबन्धे यदोत्तम्भक उपढौक्यते तदापि प्रतिबन्धकसद्भावाद्दुरापः
२९४
७
१ सत्पर्यातमत्र' इति प. भ. पुस्तकयोः पाठः । २ • कुक्षिकुम्भभुजङ्ग इति भ. पुस्तके पाठ: । ३ ' हन्त' इत्यधिकं प. भ. पुस्तकयोः । ४ ' प्रतिबन्धक ' इति प. म. पुस्तकयोः पाठः । ५ ' प्रतिबन्ध' इति प. पुस्तके पाठः । ६ ' प्रतिबन्धकपुरुषसद्भावे ' इति प. म. पुस्तकयोः पाठः ।
" Aho Shrut Gyanam"