________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः हि प्रतिबन्धपदार्थो मुख्यः । स चात्र मन्त्रादिरेव । न त्वसौ प्रतिबन्धकः । ततः किं तस्याकिञ्चित्करत्वेन । तत्प्रयोक्तारस्तु प्रतिबन्धारः । ते च किश्चित्करा एवेति किमसमञ्जसम्" इति । सोऽयमधमर्णस्येव मणिमन्त्रादिविशेषस्य नामान्तरमारचयन्नप्युत्तमर्णादिव गदितदूषणान्न तं परित्रातुमीशः । यथा खल्वकिञ्चित्करस्या- ५ म्बरादिवन्न किश्चिदपि प्रति प्रतिबन्धकत्वमपि कथं कल्प्यते । अथ कथयेः परहृदयानभिज्ञतयैतदुक्तं मणिमन्त्रादिप्रतिबन्ध इति प्रतिबन्धनक्रिया व्याक्रियते । सा चाकिंचित्कर्येव । क्रियाणां निष्क्रियत्वात् । तदेतद्भवतो भावस्वभावानभिज्ञतामाविर्भावयति । मण्यादिर्हि द्रव्यं तत्कथमसौ प्रतिबन्धक्रियोच्यते । द्रव्यक्रिययोरैक्यानुपपत्तेरिति । १० उपचारादुच्यत एवेति चेत् , ननु कुत उपचारः । कार्यकारणभावादिति चेत्, तर्हि प्रतिबन्धक्रियाकरणान्मणिमन्त्रादेः प्रतिबन्धकत्वं किञ्चित्करत्वं चायातमित्यस्य प्रतिबन्धकत्वाभावान्न किञ्चित्करत्वं च स्वोपझं प्रज्ञापयन् कथं न लज्जसे ! कथं च तत्प्रयोक्तारं प्रतिबन्धारं ब्रवीषि । तत्प्रयोक्तृत्वादयमुपचारेण प्रतिबन्धकोऽभिधीयते इति चेत् । . १५ सोऽयं पारमार्थिक पशुं पृष्टस्तदितरमुपचरितपशुत्वं पुमांसं पशुतक 'प प्रतिपादयन्नियतं स्वयमेव पशुः । यदा च केनचित्परिपन्थिना तवाप्यविदितां भवद्भवनसन्निधिसमुद्गतां दिव्यामौषधिमनवबुद्धयमानेन तदुपरि दाहाय दहनो निहितस्तदा कथमसौ न दाहं विदध्यात् । तदा हि न भवान् प्रतिबन्धको नापि त्वत्परिपन्थी। तदपरिज्ञानेनो. २० भयोरपि तत्प्रयोक्तत्वासम्भवात् । अथायं परिपन्थी प्रतिबन्धमजानन्नपि तत्सविधे धूमध्वज नियोजयन् प्रतिबन्धक एव । हन्त तर्हि किमिति कोऽपि पाटलचटुले चक्षुषी समारचयन्नतिविकटभ्रूकुटिसमाटोपसंकटं च ललाटपट्ट प्रकटयन् रेरे दुराचारविचारगोचरीकृतस्वपरसारदुरागते क यासीति नैयायिकनायकोऽपि भूत्वा तं प्रति पूत्करोषि न पुन- २९ निसर्गत एव सकललोकोपचारैकरसिक मन्मन्दिरप्रदीपपावकाति
"Aho Shrut Gyanam"