SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २९२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ त्वन्नीत्या समस्ति प्रतिपक्षत्वम् । तथा च सत्प्रतिपक्षम्य प्रतिबन्धकस्याप्रतिबन्धकत्वेन तदभावनिबन्धनः कार्योदयः किं न स्यात् । यत्तु हरिहरः प्राह " न च दुर्बल उत्तेजकमन्त्रः स्तम्भकमन्त्रस्य प्रतिपक्षः । तस्मिन् सत्यपि स्तम्भकमन्त्रस्य ५ कार्यकरणदर्शनात्" इति । तदस्यातिमनीषिमानितया लोकातिक्रान्तप्रतिपक्षस्वरूपप्रतिपादनम् । लोके हि किमपि दुर्बलोऽपि तिमिरपरिकरः खरतरकरनिरन्तराक्रान्तदिग्मण्डलस्य मार्तण्डमण्डलस्योत्पत्तौ बलीयसः क्षोदीयानपि च प्रत्यर्थी प्रौढप्रतापाक्रान्तदिक्चक्रस्य सम्राजो महीयसः प्रोच्यते प्रतिपक्षः । किं च, यत एव प्रौढस्तम्भक१० मन्त्रः सत्यप्युत्तम्भके तद्विरुद्धं कार्य कुर्वन् दृश्यतेऽत एवोत्तम्भकः प्रतिपक्षो भवति प्रौढस्तम्भकस्य । लोकोऽपि खल्वपचिकीर्षुः प्रतिपक्षस्यैव विरुद्धमाचेष्टते नानुकूलस्योदासीनस्य वा । तदेवमुत्तम्भकमणिसन्निधाने प्रतिबन्धकामावस्याभावेऽपि कार्योत्पादान्नासौ सहकारी। अपि चोत्तम्भकसन्निधौ प्रतिबन्धकस्याभावः प्रध्वंसरूपः सहकारित्वेन १५ त्वया व्याक्रियते । स च किं प्रतिबन्धकधर्मिणः स्यादुत तद्धर्मस्योप चारात्तु प्रतिबन्धकस्येत्युच्यते । नाद्यः पक्षः । मणिप्रमुखप्रतिबन्धकर्मिणोऽप्रध्वस्तस्यैव प्रत्यक्षेण वीक्षणात् । नापि द्वितीयः । यतः प्रत्यक्षोपलक्षितस्य रूयादेः कस्यचिदसौ स्यादतीन्द्रियस्य वा । प्रथमपक्षे प्रत्यक्षविरोधः । रूपादेरशेषस्याक्षुण्णतयाऽध्यक्षेण प्रेक्ष्यमाण२० त्वात् । अतीन्द्रियस्य तु कस्यचित्तस्य प्रध्वंसस्वीकारे निष्कारणोड त्यक्षशक्तिनिराकरणप्रयासः । किं च अकिञ्चित्करः किञ्चित्करो या प्रतिबन्धकः स्वीक्रियते । नाद्यः पक्षः । अन्तरिक्षादिवदकिश्चित्करस्य प्रतिबन्धकत्वस्यायोगात् । तथापि प्रतिबन्धकत्वे न कदाचित्कृपीटयोनिः स्फुटं स्फोटघटनपाटवं प्रकटयेत् । नापि द्वितीयः । अतीन्द्रियशक्ति२५ स्वीकारप्रसङ्गात् । यदिहोदयनः पुनरुदीरयामास, “ सामग्रीवैकल्यं १ मन्त्र' इत्यधिकं प. म. पुस्तकयोः । २ न्यायकु. पृ. ४७ पं. १३, "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy