________________
परि. २ सू. १]
स्याद्वादरत्नाकरसहितः
तस्मिंस्तद्भावादिति को हेतुः स्यात् । अथ कोऽयं प्रसङ्गोऽस्माकम् । अभ्युपगम्यत एव भवद्भिरप्यनियतहेतुकत्वम् । तथा हि कदलीबीजादिव दावपावकप्लुष्टबीजादपि रम्भास्तम्भारम्भो वृश्चिकादिव गोमयादपि वृश्चिकडिम्भारम्भः सम्प्रतिपन्न उभाभ्याम् । तन्न युक्तम् । अनियतहेतुकत्वस्यास्माभिरनभ्युपगमात् । कदलीकार्यजननसामर्थ्याख्यया ५ शक्त्यैकया कदलीबीजादिवत्कारणानामशेषाणामधिष्ठितत्वात् । वृश्चिकगोमयादिवृश्चिककारणानामपि तज्जननसामर्थ्यसंज्ञयैकया शक्त्या समलंकृतत्वात् । न च प्रतिबन्धकपागभावप्रध्वंसयोरपि स्फोटादिकार्यजनकत्वमेक रूपमस्तीति वाच्यम् । यतः किमिदं सामान्यं धर्मो वा कश्चित् । नाद्यः पक्षः । अभावेषु भवता सामान्यानभ्युपगमात् । १० नापि द्वितीयः । यतोऽयं धमों दृश्यः स्यादतीन्द्रियो वा । न ताव. दृश्यः, तस्य तत्र कस्यचिदपि प्रत्यक्षेणाप्रेक्षणात् । अतीन्द्रियस्य तु तस्य स्वीकारे प्रतिबन्धकप्रागभावातिकुथितकन्थापरित्यागकारणं शक्तिरेव भावेषु स्वीक्रियताम् । किं च, यदापि प्रतिबन्धकसविधमधिवसति कृशानुस्तदाप्युत्तम्भकमणिमन्त्रौषधसान्निध्यसीचीनस्य तस्य दहननि- १५ र्माणनैपुण्यमैक्षिप्महि । तत्कथं प्रतिबन्धकाभावः सहकारी स्यात् । अथासत्प्रतिपक्षम्य मणिमन्त्रादेः प्रतिबन्धकत्वं प्रतिज्ञायते । यदाहोदयनः कुसुमाञ्जलौ। " असत्प्रतिपक्षो हि प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्ष " इति । उत्तम्भकसन्निधौ च सत्प्रतिपक्षत्वान्नाय प्रतिबन्धक इति । नन्वेवं वदतस्ते कुण्ठकारुकस्येवैकं सन्धित्सोरन्यत्प्रच्य- २० वते । तथा हि यदा जातवेदसः प्रथमं प्रतिवन्धकः समनन्तरमुत्तम्भकस्तदुत्तरमपरः प्रौढप्रतिबन्धकः सन्निधिभाग्भवति । तदा तावन्निविवादमस्यावसीयते तद्वशात्कार्याकरणम् । न चेदं त्वन्मतेनोपपद्यते । उत्तम्भकरूपप्रतिपक्षसत्त्वेनापरप्रौढप्रतिबन्धकस्य प्रतिबन्धकत्वासिद्धेः ।
-------... .....१' प्रागभावाद्यतिकुथित ' इति प. म. पुस्तकयोः पाठः । २ सह अञ्चति इति सधी चीनः । उत्तम्भकमण्यादिसहितस्येत्यर्थः । ३ न्यायकुसुमाञ्जलौ पृ.४२ पं.३.
"Aho Shrut Gyanam"