________________
प्रमाणनयतत्त्वालोका लङ्कारः
[ परि. २ सू. १
त्पत्तिप्रसक्तेः । यत्पुनरिहोक्तं प्रतिबन्धकाभावस्यापि सहकारित्वादिति । तदप्यनौपयिकम् । यतः कोऽत्र प्रतिबन्धकस्याभावः सहकारी । किं प्रागभावः प्रध्वंसोऽन्योन्याभावो ऽत्यन्ताभावो वा । यदि प्रागभावः तर्हि प्रतिबन्धकस्य प्रध्वंसे सत्यपि वा तस्मिन्नुत्तम्भकमणिसन्निधौ ततो दाहोत्पत्तिर्न स्यात् । एतेन यत्कन्दलीकारः प्राह “ मन्त्रादिसन्निधौ कार्यानुत्पत्तिरदृष्टं रूपमाक्षिपति यथाह्यन्वयव्यतिरेकाभ्यामवधारितसामर्थ्यो वह्निर्दाहस्य कारणं तथा प्रतिबन्धकमन्त्रादेः प्रागभावोऽपि कारणं स च मन्त्रादिप्रयोगे सति निवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिर्न शक्तिवैकल्यात् " इति । १० तदपि प्रत्युक्तम् । उक्तनीत्या प्रतिबन्धकप्रागभावस्य दाहं प्रति कारणत्वासम्भवात् । नापि प्रध्वंसः सहकारी । तत्प्रागभावे तत्सत्त्वेऽपि चोत्तम्भकमण्युपनिपाते दाहानुत्पत्तिप्रसङ्गात् । उभयदशायामपि तत्प्रध्वंसस्य सहकारिणोऽसम्भवात् । नाप्यन्योन्याभावः । प्रतिबन्धकमण्यादिसद्भावेऽप्यस्य सम्भवेन दाहोदयानुषङ्गात् । तत्प्रागभावप्रध्वंसाभाव१५ योश्च समयेऽन्योन्याभावासम्भवेन दाहानुदयप्रसक्तेश्च । अत्यन्ताभावस्य च प्रतिबन्धकमण्यादावसम्भवादेव सहकारित्वं प्रत्याख्यातम् । अथ कदापि प्रतिबन्धकस्य प्रागभावः कदापि प्रध्वंसः शिखिनि सखित्वमाश्रयति । तथा चाभिदधे विष्णुभट्टेन " प्रतिबन्धकप्रागभावप्रध्वंसाभावो नीलपीताद्यनेकविधानामिव यथासम्भवं कारणत्वं २० विशेषत " इति । तदपि नोपादेयम् । कार्यस्यैवम नियतहेतुकत्वप्रसङ्गात् । अनियतहेतुकं चाहेतुकमेव । ननु किमिदममर्यादमुच्यते । अनियतहेतुकं नैकहेतुर्भवति न पुनरहेतुकमेव । युक्तिरिक्तस्यैतद्वचः । यत्र खल्वसति कार्यं नोपजायत एव सत्येव तु जायते तदेव कारणमिति कार्यकारणकथासु कथयन्ति तार्किकाः । यदि तु तदन्तरेणापि कार२५ णान्तरादुपजायमानं कार्यमुपलभ्यते तदा कथं तत्कार्यता । असत्यपि
१ न्यायकन्दल्यां पृ. १४५ पं. १५.
२८८
༣
" Aho Shrut Gyanam"