________________
परि. २ सु. १]
स्याद्वादरत्नाकरसहितः
ष्टादिकार्ये जनकेन व्यभिचारः स्यात्तत्परिहाराय चाक्षुपत्य इति । अपि चासौ शक्तिर्नित्याऽनित्या वा। आद्यपक्षे सर्वदा कार्योत्पादप्रसङ्गः तस्याः सदा सच्चात् । ननु तन्नित्यत्वेऽपि सहकारिणां कादाचित्कत्वप्रयुक्तं कार्यस्य कादाचित्कत्वम् । तदपेक्षयास्तस्या कार्यकारित्वप्रतिज्ञानात्" इति। एतदप्यनुपपन्नम् । शक्तिकल्पनावैयर्थ्यप्रसक्तेः । स्वरूपस्यैव सहकारिका- ५ रणापेक्षस्य कार्योत्पादकत्वोपपत्तेः । अनित्यत्वे तु स्वरूपसहकारिलक्षणसामर्थ्यसम्पाद्येयमतीन्द्रियशक्त्यन्तरनिष्याद्या वा । प्रथमपक्षे कार्यमेव स्वरूपसहकारिलक्षणसामर्थ्यसम्पाद्यमस्तु । पर्याप्तमप्रातीतिकातीन्द्रियशक्तिकल्पनया । अतीन्द्रियशत्तत्यन्तरनिप्पाद्यत्वेऽनवस्था । तस्यापि कादाचित्कतया तदन्तरनिष्याद्यत्वप्रसक्तेः । तथा प्रतिकार्यमेका शक्तिरनेका १० या । न तावदेका, तद्भेदात्कार्यभेदाङ्गीकरणात् । अथानेका, तर्हि किं शक्तिशक्तिमतोर्भेदोऽभेदो भेदाभेदो वा । भेदेऽपसिद्धान्तप्रसङ्गः । अभेदेऽपि स एव दोषः । किंच । किं शक्तिभ्यस्तद्वानभिन्नस्तद्वतो वा शक्तयः । प्रथमपक्षे शक्तिस्वरूपवच्छक्तिमतोऽप्यनेकत्वमतीन्द्रियत्वं च स्यात् । तादात्म्ये तस्यापि तावद्वा भेदादतीन्द्रियस्वरूपस्वी - १५ काराच्च । अन्यथा तत्तादात्म्यानुपपत्तिः । द्वितीयविकल्पे तु शक्तिमत्स्वरूपवच्छक्तीनामप्येकत्वप्रसक्तिः । एकस्मादभिन्नानां तत्स्वरूपबदनेकत्वानुपपत्तेः । कुतः कार्यनानात्वसम्भवः । भेदाभेदपक्षस्तु विरोधादेवासम्भवीति ।
तत्कार्ये भावानां स्वरूपसहकारिलक्षणा शक्तिः ॥ उपपत्तिमेति न पुनः परोक्षरूपा पराभिमता ॥ २९७ ॥ मैवं व्यलीकवचनैश्चापलमङ्गीकुरुध्वमिह योगाः ॥ यस्मादतीन्द्रियायां शक्तौ युक्तिः स्फुरत्येव ॥ २९८ ॥ तथा हि । यत्तावदवादि दृष्टकारणादेव स्वरूपसहकारिरूपादि
शक्तिमस्वीकुर्वतो नैयाविकस्य खण्डनम् !
त्यादि । तदवद्यम् । प्रतिबन्धको पढौकनावस्थायामपि ततः कार्यो- २५
१' आद्यक्षणोत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति' इति न्यायेन प्रथमक्षणोत्पन्नद्रव्ये शक्तेरनुत्पादात् । २ ' तत् ' इत्यधिकं भ. पुस्तके |
२८७
"Aho Shrut Gyanam"
२०