________________
२८६
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ तथाहि । दह नादिषु तत्प्रसिद्धये स्फोटाद्यन्यथानुपपत्त्यानुमानमायुष्मतां सम्मतम् । तच्च न सङ्गतम् । दृष्टकारणादेव स्वरूपसहकारिशक्तिरूपात्स्फोटाद्युत्पत्तेर्घटनात् । दहनस्य हि स्वरूपं दहनत्वं
देहसंयोगादिस्तु सहकारी । तदुभयसम्भवेऽवश्यतया सम्पद्यमानं ५ स्फोटकार्यं कथमतीन्द्रियशक्तिकल्पनाकौशलमवलम्बेत । न चैवं प्रतिबन्धकमणिमन्त्रौषधादिसन्निधानेऽपि धनञ्जयस्य स्फोटादिकार्यकारित्वप्रसक्तिरिति वाच्यम् । प्रतिवन्धकामावस्यापि सहकारित्वात्तस्य च तदानीमभावात् । प्रयोगश्चैतन्निषेधे दहनादयः स्वरूपसह कारि
रूपद्दष्टशक्त्यतिरिक्तशक्तिभाजो न भवन्ति कार्योत्पादकत्वात् । यदित्थं २० तदित्थं यथा कर्म । तथा चैते तस्मात्तथा । उत्क्षेपणादिकं हि कर्म
विभागेन निवर्तिते पूर्वसंयोगे उत्तरसंयोगोत्पादे स्वरूपलक्षणायाः पूर्वसंयोगप्रध्वंसलक्षणसहकारिरूपायाश्च दृष्टशक्तेरतिरिक्तशक्तिभाग न भवत्येवेत्युभयसम्प्रतिपन्नोऽयमर्थः । विष्णुभट्टस्त्वाह । " स्वरूप
सहकारिव्यतिरिक्ता शक्तिरस्तीति वाक्यमनर्थकं सर्वप्रमाणैरनुपल१५ भ्यमानार्थत्वाधादित्थं तत्तथा यथाङ्गुल्यग्रे करिशतमास्त इति वाक्यं
यथोक्तसाधनं चैतत्तस्माद्यथोक्तसाध्यम्" । विमलशिवः पुनरन्यथा प्राह । “वढ्यादिकं न स्चैकसमवेतातीन्द्रियकार्यकृञ्चाक्षुषत्वे सति हेतुत्वात् यदित्थं तत्तथा यथा गोत्वं तथा च विवादास्पदं तस्मात्तथा ।
वह्नयादिकं नातीन्द्रियकार्यकृदित्युच्यमाने प्राणिसमवेतादृष्टरूपाती२० न्द्रियकार्यकृत्त्वस्यापि प्रतिषेधः स्यात्तदपोहाय स्वसमवेतेति । वह्नया
दिकं हि प्राणिनामदृष्टं निमित्तकारणत्वेन करोति न तु तत्तत्र समवेतम् । प्राणिसमवेतत्वात्तस्य। एवमपि वढ्यादेराकाशादिनापि संयोगकृत्त्वस्वभावः स्यात्तनिषेधायाह एकेति । संयोगो हि न वढ्यादावेव समवेतः हेतुत्वादित्युच्यमाने आत्मादिना स्वैकसमवेतातीन्द्रियाह
१ स्फोटः-वंशादीनां सशब्दं स्फुटनम् । अथवाऽग्निसंयोगेन शरीरे स्फोटोत्पत्तिः ।
"Aho Shrut Gyanam"