________________
परि. २ सू. १]
संख्याव्याघातः । अस्ति चानुमानं पक्षधर्मत्वरहितम् । नदीपूरोऽप्यघोदेशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ १ ॥ पित्रोव ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते || २ || एवं यत्पक्षधर्मत्वं ज्येष्ठं हेत्वङ्गमिष्यते । तत्पूर्वोक्तान्यधर्मत्वदर्शनाव्यभिचार्यते ॥ ३ ॥" इति भट्टेनाभिधानात् । नियमवतोऽर्थादर्थान्तरप्रतिपत्तेरविशेषात्तयोरभेदे स्वसाध्याविनाभाविनोऽर्थादर्थान्तरप्रतिपत्तेरत्राप्यविशेषात्कथमनुमानादर्थापतेर्भेदः स्यात् । अथ विपक्षेऽनुपलम्भात्तस्यान्यथानुपपद्यमानत्वावगमः । न । पार्थिवत्वादेरप्येवं स्वसाध्याविनाभावित्वावगमप्रसङ्गात् ! चिपक्षेऽनुपलम्भस्याविशेषात् । सर्वात्मसम्बन्धिनोऽनुपल- १० म्भस्यासिद्धानैकान्तिकत्वाच्च । नन्वेवं सकलानुमानोच्छेदः अस्तु नाम तस्यायं यो भूयोदर्शनाद्विपक्षेऽनुपलम्भाद्वा व्याप्तिं प्रसाधयति । नास्माकम् । प्रमाणान्तरात्तत्प्रसिद्ध यभ्युपगमात्, मीमांसकस्यापि ततस्तदभ्युपगमे प्रमाणसंख्याव्याघातः ।
स्याद्वादरत्नाकरसहितः
प्रत्यक्षाद्युपलक्षितादधिगतिर्यार्थादिहार्थान्तर-
स्यार्थापत्तिरियं न किन्तु सुसखे सैषाऽनुमानं ध्रुवम् ||
तन्मीमांसकष्टुप्रमाणगणनात्यन्तार्जवं नोचितं
छेकानां परिषन्न नाम किमियं ज्ञाता त्वयाद्यापि भोः ॥ २९५ ॥
अत्र योगाः सङ्गिरन्ते ।
नैयायिकमतेन शक्तेः खण्डनम् ।
www.archy
अर्थापत्तिर्या प्रतिष्ठानुमाने युष्मन्नीत्या हन्त तस्याः कदाचित् ||
ग्राह्या शक्तिर्मन्यतेऽतीन्द्रिया या
लाध्या नेयं न्यायमुद्रादरिद्रा ||२९६ ॥
१ प्रथम श्लोकार्थद्योतकः श्लोक उपलभ्यत केवलम् । मी, श्लो. वा. अ. प. श्लो. १७.
"Aho Shrut Gyanam"
२८५
१५
२०