________________
२८४
१०
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ हि विनोपपद्यते तमपि परिकल्पयेदनवगतत्वाविशेषात् । अथ ते न कल्पयति, तर्हि येन विना नोपपद्यते तमपि न कल्पयेत् । अथावगतः, तर्वार्थापत्तेरनुमानादभिन्नत्वम् । अन्यथानुपपद्यमानत्वेन प्रतिपन्नादेकस्मात्सम्बन्धिनो द्वितीयम्य प्रतीतेरत्राप्यविशेषात् । किं चार्थापत्त्युत्थापकस्यार्थस्यान्यथानुपपद्यमानत्वावगमोऽर्थापत्तेरेव प्रमाणान्तराद्वा । प्रथमपक्षेऽन्योन्याश्रयः । तथा ह्यन्यथानुपपद्यमानत्वेन । प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिस्तत्प्रवृत्तेश्चास्यान्यथानुपपद्यमानत्वप्रतिपत्तिरिति । अथ प्रमाणान्तरादापत्त्युत्थापकस्यार्थम्यान्यथानुपपद्यमानत्वावगमः । तरिक भूयोदर्शनं विपक्षेऽनुपलम्भो वा । आद्यकल्पे कास्य भूयोदर्शनं साध्यधर्मिणि दृष्टान्तधर्मिणि वा । यदि साध्यमिणि, तदा भूयोदर्शनेनैव साध्यस्यापि तत्र प्रतिपन्नत्वादापत्तेर्वैयर्थ्यम् । अथ दृष्टान्तर्मिणि, तर्हि तत्र प्रवृत्तं भूयोदर्शन साध्यधर्मिण्यप्यस्यान्यथानुपपद्यमानत्वं निश्चाययति तत्रैव वा । तत्रोत्तरपक्षोऽयुक्तः । न खलु
दृष्टान्तधर्मिणि निश्चितान्यथानुपपद्यमानत्वार्थोऽन्यत्र साध्यधर्मिणि १५ तथात्वेनानिश्चितस्स्वसाध्यं प्रसाधयति । अतिप्रसङ्गात् । प्रथमपक्षे तु
लिङ्गार्थापत्त्युत्थापकार्थयोर्भेदाभावः । ननु लिङ्गस्य दृष्टान्तधर्मिणि प्रवृत्तप्रमाणात्स्वसाध्यान्यथानुपपद्यमानत्वनिश्चयोऽर्थापत्त्युत्थापकार्थस्य तु साध्यधर्मिणि प्रवृत्तप्रमाणादित्यनयोर्भेदः । नैतद्युक्तम् । अर्थापत्तेर्वैय
र्थ्यस्य तदवस्थत्वात् । न च लिङ्गं सपक्षानुगममात्रेण गमकं वज्रस्य लोहलेख्यत्वे पार्थिवत्वादिवत् । किं तर्हि व्याप्तिबलेन । तत्र च किं सपक्षानुगमेनेति प्रतिपादयिष्यते । तदभावे गमकत्वमेवास्य कथमिति चेत् । उच्यते । यथार्थापत्त्युत्थापकार्थस्य । तथा चार्थापत्तिरेवाखिलमनुमानमिति प्रमाणसंख्याव्याघातः । भवतु वा सपक्षानु
गमाननुगमरूपो विशेषः । तथापि नैतावता तयोर्भेदः । अन्यथा २५ पक्षधर्मत्वसहितादनुमानात्तद्रहितमनुमानं प्रमाणान्तरं स्यादिति प्रमाण
१ 'न तत्कल्पयति' इति भ, पुस्तके पाटः ।
"Aho Shrut Gyanam"