SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २९० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ अथासिद्धं विवक्षितोत्तम्मकस्य प्रतिपक्षत्वम् । यतः कश्चिदेवोत्तम्भकः कस्यचिदेव प्रतिबन्धकस्य प्रतिपक्षः । तदयमुत्तम्भकः प्रथमोपस्थायिन एव प्रतिबन्धकस्य प्रतिपक्षो न त्वपरस्य । तदपेक्षयोत्तम्भकान्तरस्यैव प्रतिपक्षत्वादिति चेत् । सोऽयं पङ्गोस्तुङ्गतरुशिखरालम्बिपेशलफलादानदोहदः । सपक्षप्रतिपक्षव्यवस्था हि भाषानामविरुद्धविरुद्धकार्यकारित्वावसेया । तत्र प्रतिबन्धकस्य कार्य वह्निप्रतिबन्धनं उत्तम्भकस्य पुनस्तदुत्तम्भनम् । तदिह यथा प्रथमप्रतिबन्धकम्प्रति तदुत्तम्भनाख्यविरुद्धकार्यकारित्वात्प्रतिपक्षतयोत्तम्भकः स्वीक्रियते । तथा परप्रौढप्रतिबन्धकमपि प्रति किं न तथाऽसौ स्वीक्रियते । विशेषाभावात् । अथोत्तम्भनस्वभावं कार्य कुर्वन्नेवोत्तम्भक उत्तम्भकता प्रतिपद्यते । प्रौढप्रतिबन्धकसन्निधौ चोसम्भकम्य तदुत्तम्भनरूपकार्यकारित्वाभावान्नोत्तम्भकत्वमिति कथं तत्प्रतिपक्षत्वव्यवस्थेति चेत् । तत्किमिदानी दहनसन्निधाने शान्तिमनादधानस्य तुषारस्यापि प्रतिपक्षतां न प्रतिपन्नवान् भवान् । क्वापि कदापि तस्मिस्तज्जातं यदा शीतकार्यदर्शनात्तुषारस्य प्रतिपक्षतोपगमे तद्वदेवोत्तम्भकेऽपि जाङ्गले पादिकया किं न कोविदः कक्षीकार्यसे । अपि चैवमुच्यमाने प्रतिबन्धकनिकटतायां करतलमदहतो दहनस्यापि दहनत्वं न व्यवतिष्ठेत । अथ तदाप्यसौ स्वाश्रयमिन्धनं दहत्येवान्यथा निर्वाणत्वापत्तिस्तत्कथमदहनः । तर्हि दहनद्वयमुत्तम्भयितुमेकस्मिन्नु२० तम्भके प्रयुक्ते तदन्यतरदहनोद्देशप्रयुक्तप्रौढापरप्रतिबन्धकनिकटतायामु त्तम्भकोऽप्युत्तम्भयत्येव दहनान्तरमिति कथं नोत्तम्भकः । अथास्तु दहनान्तरापेक्षयाऽयमुत्तम्भकः का नः क्षतिः । प्रकृततदपेक्षया तावदनुत्तम्भकः एवासौ । तर्हि दहनोऽपि दाह्यान्तरापेक्षयैव दहनः करतलापेक्षया त्वदहन एवास्तु । अस्त्वमिति चेत् । १. शिखरावलम्बि ' इति प. पुस्तके पाठः। २ जातीये वा' इति म. पुस्तके पाठ. । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy