________________
प्रमाणनयतत्त्वा लोकालङ्कारः
[ परि. २ सू. ३
शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते || ” इति । आसामर्थः। क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्यं नास्तीत्येवं यत् प्रतीयते ठोके स प्रागभाव उच्यते । एवं दनि क्षीरस्य यन्नास्तित्वमयं प्रध्वंसाभावः । यस्तु गवादावश्चाद्यभावः सोऽन्योऽन्याभाव उच्यते । शश५ शृङ्गादिरूपेणा लोच्यमानाः शशमूर्ध्नोऽवयवा वृद्धिकाठिन्याभ्यां रहिता अत्यन्ताभावः । स्वरूपेण तु ते भावा एवेति । अभावप्रमाणाभावे तु प्रागभावादिचतुष्प्रकाराऽभावव्यवस्था न स्यात् । यदाह ॥ " क्षीरे दधि भवेदेवं दभि क्षीरं घटे पटः । शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥ १ ॥ अप्सु गन्धो रसश्रामौ वायौ रूपेण तौ सह । १० व्योम्नि सस्पर्शकास्ते च न चेदस्य प्रमाणता || २ ||" एवमिति यथा क्षीरे दधि एवं दध्न्यपि क्षीरमित्यर्थः । शशे शृङ्गमित्यतः प्रभृति अत्यन्ताभावासिद्धौ परेषां दोषप्रसञ्जनम् । आभावप्रामाण्यानाश्रयणे हि न शशादिषु शृङ्गादीनामत्यन्ताभावः सिद्धयति । परिपन्थिनश्च भूर्त - तन्यवादिनो न निराकर्तुं शक्यन्ते । महाभूतानां वाय्वादीनामात्य१५ न्तिको गन्धाद्यभावो न सिद्धयेत् । यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति । न चाभावस्यावस्तुत्वम् । द्रव्यादिवद्भिद्यमानत्वात् । तदुक्तम् । “ नैं चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता " इति । कारणादिस्वरूपत्वाच्च प्रागभावादेर्नावस्तुत्वम् । तदाह " कॉर्यादीनामभावः को भावो यः कारणादिनः " इति । वस्त्वेव हि सदसदात्मकमिति सिद्धान्तः । तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वं भविष्यति । स एव हि कार्यस्य दघ्नोभावो यस्तत्कारणस्य क्षीरस्य भावः । स एव च क्षीरस्याभावो यस्तत्कार्यस्य दो भावः । किमिदानीं भावाभावयोरभेद एव । नेति वदामः । भेदोऽपि ह्यनयोर्धर्म्मधर्मितया कियानप्यस्त्येव रूपादीनामिवेति । इत
૨
२०
१ मी. लो. वा. सू. ५ अभा. प. लो. ५,६. २ भूत चैतन्यवादिनः - चार्वाकाः । ३. स्थितिः - शास्त्रमर्यादा ४ मी. श्लो. वा. सू. ५ अभा. प. लो. ८.
"Aho Shrut Gyanam"