________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः
२८१ दिवदत्यन्तमभेदाभावादिति । न चैतदभावज्ञानमनुमानम् । लिङ्गाभावात् । तदुक्तम् । " ने चाप्यस्यानुमानत्वं लिङ्गाभावात्प्रतीयते ।। भावांशो ननु लिङ्गं स्यात्तदानीमजिघृक्षणात् ॥ १॥ अभावांशे गतेर्जन्म भावांशे ह्यजिक्षिते । तस्मिन् प्रतीयमाने च नाभावे जायते मतिः ॥ २॥ न चैप तस्य धर्मत्वं पदवत्प्रतिपद्यते ॥” ५ इति । अत्र भावांशो ननु लिङ्गं स्यादिति प्रश्नः । शेषं तु समाधानम् । अयमाशयः । भूप्रदेशाख्ये धर्मिणि घटाभावे प्रमेयेऽघटाभावस्य वा लिङ्गत्वं स्याद्भूप्रदेशस्य वा । न तावत् घटाभावस्येत्याह तदानीमजिघृक्षणादिति । घटाभावप्रतिपत्तिवेलायामप्रतीयमानस्य घटस्य कथं लिङ्गत्वम् । तत्प्रतिपत्तिवेलायां च तदभावप्रतिपत्तिर्नास्तीत्यर्थः । १० नापि भूप्रदेशस्यैव लिङ्गत्वम् । घटाभावे प्रमेये भूप्रदेशस्य पदवत्तद्धर्मतया ग्रहणाभावादित्याह । न चैष तस्य धर्मत्वमिति । एष इति पुरोवस्थितं भावमपरोक्षं निर्दिशति । यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तमेवमेषोऽपि भूतलभावो न घटाभावस्य धर्म इति । न चाभावस्य भावरूपेण प्रत्यक्षादिना प्रमाणेन परिच्छित्तिर्युक्ता प्रयोगः। यो यथाविध- १५ विषयः स तथाविधेनैव प्रमाणेन परिच्छिद्यते । यथा रूपादि वो भावरूपेण प्रत्यक्षादिना । विवादास्पदीभूतश्चाभावस्तस्मादभावप्रमाणपरिच्छेद्य इति ! यदाह । "मेयो यद्वदभावो हि मानमप्येवमिष्यताम्।। भावात्मके यथा मेये नाभावस्य प्रमाणता ॥ १॥ तथैवाभावमेयेऽपि न भावस्य प्रमाणता ॥” इति । चतुःप्रकारश्चाभावो व्यवस्थितः । २० प्रागभावप्रध्वंसाभावेतरेतरामावात्यन्ताभावभेदात् । उक्तं च, " क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ नास्तिता पयसो दन्नि प्रध्वंसाभावलक्षणम् ॥ १ ॥ गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ २॥
१ मी. श्लो. वा. स. ५ अभा. प. श्लो. २९, ३०, ३१. २ मी. श्लो. वा. स्. ५ अभा. प. श्लो.४५, ४६.३ मी. श्लो.वा. सू. ५ अभा. प. लो. २, ३, ४.
"Aho Shrut Gyanam"