________________
२८०
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ च " गृहीत्वावस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥१॥" अविकलस्फारिते चक्षुषि प्रदेशज्ञानं चोत्पद्यते नास्तीति ज्ञानं च इह प्रदेशे घटो नास्तीति । निमीलिते तु चक्षुष्युभयोरप्यभावः । तत्र समाने तद्भावभावित्वे कथं प्रदेशज्ञानमेवाक्षजं नतु नास्तीति ज्ञानमपीत्याशंक्याभ्युपगम्य तद्भावभावित्वमन्यथासिद्धतामम्य दर्शयितुमियं कारिका भट्टेनाभिदधे । इदं चात्र तात्पर्यम् । भूप्रदेशग्रहणसापेक्षमभावग्रहणम् । भूप्रदेशग्रहणं चेन्द्रियजमिति तद्भावभावित्वमन्यथासिद्धमभावज्ञानस्य । यथा हि विस्फारिते चक्षुषि दूरव्यवस्थितेऽनौ रूपज्ञानं चोत्पद्यते स्पर्शज्ञानं १० च तत्र रूपज्ञानमेवाक्षजमिष्यते । स्पर्शज्ञानं त्वेकार्थसमवयायिनो
रूपादानुमानिकमिति तद्भावभावित्वं तत्रान्यथासिद्धम् । एवमिहापि । गृहीत्वा स्मृत्वेति च ज्ञातृज्ञानयोरभेदात्समानकर्तृत्वाभिधानमिति । अभावांशेन सहेन्द्रियस्य सम्बन्धायोग्यत्वाञ्च नेदमभावज्ञानं प्रत्यक्षम् ।।
यदाह । न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः॥ भावांशेनैव १५ संयोगो योग्यत्वादिन्द्रियस्य हि ॥ १॥ " अस्थार्थः । योग्यता
हि कार्यदर्शनसमधिगम्या । सा चेन्द्रियाणां भावांशग्रहण एवोपलभ्यते नामावांश इति । न च धर्म्यभेदाद्भावांशेन सहाभावांशस्याभेदे सति योग्यतासिद्धेरिन्द्रियेण सम्प्रयोगतासम्भ
वात्तद्विषयं ज्ञानमध्यक्षमेवेत्यभिधेयम् । अभिन्ने धर्मिणि रूपरसयोरिव २० भावाभावांशयोरन्योन्यं भेदात् । तदुक्तम् ! " नेनु भावादभिन्नत्वात्सम्प्रयोगोऽस्ति तेन च ॥न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः॥१॥” अत्र पूर्वार्धन प्रश्नः । उत्तरार्द्धन तूत्तरम् । यदि हि भावाभावयोरेकान्तेनाभेदः स्यात्ततो भावनेन्द्रियसन्निकर्षे तदभिन्नस्य तस्यापि स स्यात् । न त्वेवमस्ति । अमावस्यापि रूपा
१ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १८. २ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १९.
"Aho Shrut Gyanam"