________________
परि. २ स. १] स्थाद्वादरत्नाकरसहितः
२७९ यथाविषयमनुत्पत्तिरभावप्रमाणलक्षणमित्यर्थः । तामेव प्रत्यक्षाद्यनुत्पत्ति विवृणोति नात्मन इत्यादि । उत्तरपदार्थप्रतिषेधमात्रविवक्षायामात्मनोऽपरिणामो वेत्याह । घटज्ञानरूपतया परिणतस्यात्मनो घटसद्भावः प्रमेयः । तद्रूपेणापरिणतस्य तु तदभाव इत्यर्थः । उत्तरपदार्थपर्युदस्तवस्त्वन्तरविवक्षायां विज्ञानं वाऽन्यवस्तुनीत्याह । भूप्रदेशे घटव्य- ५ तिरिक्ते वस्तुनि घटविविक्तताख्यो इह प्रदेशे पंटो नास्तीति यद्विज्ञानं तदभावसंज्ञकं प्रमाणमित्यर्थः । अयमाशयः । इह प्रदेशे दृश्यादर्शनं चाऽस्ति तदनन्तरं घटो नास्तीति ज्ञानं चोत्पद्यते । तत्र घटाभावे प्रमेये दृश्यादर्शनमेव कदाचित्प्रमाणत्वेन विवक्ष्यते । तदा सात्मनोऽपरिणामो केति पक्षः । अथ तदनन्तरं नास्तीति ज्ञानं प्रमाणत्वेन विवक्ष्येत १० बोधकत्वेन वाचकप्रत्ययाभावेन च । तदा विज्ञानं चाऽन्यवस्तूनीति पक्षः। प्रथमपक्षे नास्तीति ज्ञानं फलम्, द्वितीयपक्षे तु हानादिबुद्धिरिति । विषयः पुनरस्य प्रमाणपञ्चकप्रवृत्त्ययोग्योऽसदंशः । यदुक्तम् । “प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ॥ वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥ १ ॥” इति । अभ्यार्थः । सदसद्रूपेणोभयात्मके वस्तुनि १५ व्यवस्थिते सति यस्मिन्वस्तुरूपे वस्त्वंशे सद्रूपे प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते । किमर्थम् । वस्तुसत्तावबोधार्थम् । तत्राभावांशे प्रमेयेऽभावस्य प्रमाणता! औचकस्त्वेवं व्याख्यातवान् । “यत्र घटाख्ये वस्तुनि प्रत्यक्षादि सद्भावग्राहकं नोपजायते । तस्य नास्तिता भूप्रदेशाधिकरणाभावप्रमाणस्य प्रमेयेति" । न चेदमभावज्ञानं प्रत्यक्षम् । २० अक्षानपेक्षया केवलात्ममनःसन्निकर्षादेव समुत्पद्यमानत्वात् । उक्तं
१ ‘सात्मनः 'इति म. पुस्तके पाठः। २ 'यम्' इति प. पुस्तके पाठः । ३ 'घटो' इति म. पुस्तके पाठः । ४ ' तदनन्तरं ' इत्यादि 'पक्षः' इत्यन्तं नास्ति प. म. पुस्तकयोः । ५ 'प्रथमपक्षे' इत्यादि 'जायते' इत्यन्तं भ. पुस्तके नास्ति । ६ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १. ७.मी. श्लो. वा. सू. ५ अभा. प. श्लो. २७.
"Aho Shrut Gyanam"