________________
२७८
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ क्षतो ज्ञानाद्दाहाद्दहनशक्तिता । वढेरनुमिता सूर्ये यानात्तच्छक्तियोग्यता ॥१॥ पीनो दिवा न भुक्ते चेत्येवमादिवचः श्रुतौ ॥ रात्रिभोजनविज्ञानं शाब्दार्थापत्तिरुच्यते ॥२॥" रात्रिभोजनविज्ञानमिति रात्रिभोजनाभिधायकवाक्यशकलविज्ञानम् । गर्वयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तता ॥१॥अभिधानप्रसिद्धयर्थम
पत्त्यावबोधिता ।। शब्दे वाचकसामर्थ्यात्तन्नित्यत्वप्रमेयता ॥२॥ अभिधानान्यथाऽसिद्धेरिति वाचकशक्तता । अर्थापत्यवगम्यैव तदनन्यगतेः पुनः ॥ ३॥ अर्थापत्यन्तरेणैव शब्दनित्यत्वनिश्चयः
॥ ४ ॥ प्रमाणाभावनिर्णीताचैत्राभावविशेषितात् । गेहाचैत्रबहि१० र्भावसिद्धिर्या त्विह दर्शिता ॥५॥ तामभावोत्थितामन्यामर्था
पत्तिमुदाहरेत् ॥६॥” इति । एतेषु चार्थापत्तिनिदर्शनेषु प्रत्यक्षानुमानोपमानपूर्विकाणामर्थापत्तीनां शक्तिः प्रमेयत्वेन दर्शिता । शब्दार्थापत्त्यभावप्रमाणपूर्विकाणां तु यथाक्रमं वाक्यशकलशब्दनित्यत्वचैत्रबहिर्भावाः । न च प्रत्यक्षानुमानोपमानपूर्विकाणामेवार्थापत्तीनां शक्तिः प्रमेयेति नियमः | अन्यासामपि शक्तिगोचरत्वेन कचिद्दर्शनात् । तथा चार्थापत्तिपूर्विकयाऽर्थापत्त्या रूपप्राकटयान्यथानुपपत्तिप्रतिपन्नरूपोपलम्भान्यथानुपपत्तिरूपया चक्षुषो रूपपरिच्छेदनशक्तिः कल्प्यते ।
अर्थापत्तिः षोढा सेयं मानान्तरत्वमुपयान्ती ||
सामग्रीविषयभिदा मनस्सु चेतस्विनां वसतु ।। २९२ ।। अभावप्रमाणमपि प्रमाणान्तरम् । तथा हि । तम्य स्वरूपं प्रत्यक्षादे: मीमांसकमनाभाव सदुपलम्भकप्रमाणपञ्चकस्यानुत्पत्तिः । तदुक्तम् । प्रमाणान्तरत्वव्यव- "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ॥
स्थापनम् । सात्मनोऽपरिणामो वा विज्ञानं वान्य.. वस्तुनि ॥१॥” इति । अस्यार्थः । प्रत्यक्षादेरापत्तिपर्यन्तस्य
१ मी. श्लो. वा. सू. ५ अर्था. प. श्लो. ३, ५१. २ मी. श्लो. वा. सु. ५ अर्था. प. श्लो. ४, ५, ६, ७, ८, ९. ३ मी. श्लो. वा. स. ५ अभा.प.श्लो.११.
"Aho Shrut Gyanam"