________________
२७७
परि. २ सु. १] स्याद्वादरत्नाकरसहितः ज्ञातो यत्रार्थोऽनन्यथाभवन् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥ १॥" यत्र देशकालादौ प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणैः षड्भिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवभूतोऽर्थो न भवेत्परोक्ष इति या परोक्षार्थविषया कल्पना सार्थापत्ति: प्रमाणम् । उदाहृतोते शबरस्वामिना प्रतिपादिता । तत्र प्रत्यक्ष- ५ पूर्विकाऽर्थापत्तियथा । प्रत्यक्षेण प्रतिपन्नाद्दाहाद्वहेर्दहनशक्तिकल्पना । न हि शक्तिः प्रत्यक्षेण परिच्छेद्या। अतीन्द्रियत्वात् । नाप्यनुमानेन । अस्य प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवत्वेनाभ्युपगमात् । अर्थापत्तिगोचरस्य चाऽर्थस्य सदैव प्रत्यक्षाविषयत्वात् । अनुमानपूर्विका यथा । सूर्य गमनात्तच्छक्तियोगकल्पना । अत्र हि देशाद्देशान्तरप्राप्त्या सूर्ये १० गमनमनुमीयते । तस्माच्च तत्र गमनशक्तिसम्बन्धोऽर्थापत्त्या कल्प्यते । शाब्दप्रमाणपूर्विका यथा ! पीनो देवदत्तो दिवा न मुंक्ते इति वाक्यप्रतिपन्नदिनाधिकरणभोजनाभावविशिष्टपीनत्वाख्यकार्यान्यथानुपपत्त्या कारणभूतरात्रिभोजनाभिधायक रात्रौ भुंक्त इति वाक्यखण्डलक कल्प्यते । रसायनोपयोगादेस्तु तत्कारणस्याभिधायकं तन्न कल्पनाहम्। १५ दिनाधिकरणंभोजनाभावविशिष्टत्वेन पीनत्वम्य रसायनोपयोगादिबाधहेतुत्वात् । रसायनोपयोगादौ हि सर्वथा भोजनं निषिध्यते न तु दिनाधिकरणतया । उपमानपर्विका यथा । गवयोपमितस्य गोपिण्डस्योपमानप्रमाणग्राह्यताशक्तिकल्पना । अर्थापत्तिपूर्विका यथा । शब्दकर्तृकार्थप्रत्यायनानुपपत्तिप्रतिपन्नवाचकशक्त्यन्यथानुपपत्त्या शब्दे २० नित्यत्वकल्पना । शब्दोच्चारणे हि सत्यन्यथानुपपत्या वाचिका शक्तिस्तावत्प्रतीयते । पुनरर्थापत्तिप्रमितवाचकशक्त्यन्यथानुपपत्त्या शब्दस्य स्थायित्वं प्रतीयते । अभावपूर्विका यथा । प्रमाणाभावप्रमिताद्धेश्मनि जीवञ्चैत्राभावाच्चैत्रबहिर्भावकल्पना । चैत्रो बहिरस्ति जीवतो वेश्मन्यभावान्यथानुपपत्तेरिति । यथोक्तं भट्टेन " तत्र प्रत्य- २५
१ अधिकरणक' इति म. पुस्तके पाठः ।
"Aho Shrut Gyanam"