________________
२७६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ गवयगतं सादृश्यं सर्वेण प्रमात्रा सादृश्यविशिष्टगोज्ञानात्पूर्व गव्यनुगतं दृष्टम् । न हि गोगवयौ युगपत्सर्वैः सदृशौ लक्ष्येते । अपि त्वेकस्मिन्ननुपलक्षितसादृश्ये पूर्वं गवि दृष्टेऽपि द्वितीयं गवयलक्षणमर्थं पश्यतो
वने सादृश्यसहित एवास्मिन् गवि तस्मिन्नेव काले बुद्धिरुत्पद्यते । न ५ चापि गवयः । कैरपि गवान्वयी दृष्टपूर्वः । येन गोस्तत्सादृश्यस्य वा लिङ्गता प्रतिपद्येत । न च गवयस्तत्सादृश्यं वा विपक्षाच्यावृत्तं दृष्टम् । गोरभावेऽपि तयोः प्रवृत्तिदर्शनात् । यदाह महः । " न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् ।। प्राक्प्रमेयस्य सादृश्यं धर्मत्वेन
न गृह्यते ॥ १ ॥ गवये गृह्यमाणं च न गवामनुमापकम् । प्रति१० ज्ञार्थंकदेशत्वादोगतस्य न लिङ्गता ॥ २ ॥ गवयश्चाप्यसम्बन्धान
गोलिङ्गत्वमृच्छति ॥ सादृश्यं न च सर्वेण पूर्व दृष्टं तदन्वयि ॥३॥ एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने ॥सादृश्येन सहैवास्मिंस्तदैवोत्पद्यते मतिः॥ ४ ॥ न चापि गवयः कैश्चिद्दष्टपूर्वो गवान्वितः । येन गोलिङ्गतां गच्छेत्तत्सादृश्यस्य वा तदा ॥५॥ गवयश्च ससादृश्यो गोरभावे प्रवर्त्तते । विपक्षात्तेन नास्त्येव व्यावत्तिरुभयोरपि ॥६॥” इति ।।
सामग्र्यादिविभिन्नत्वात्प्रत्यक्षादिप्रमाणतः ।। मतान्तरतया सिद्धमुपमानं ततः स्फुटम् ॥ २९१॥
अर्थापत्तिरपि प्रमाणान्तरम् । यदाह माध्यकारः, " दृष्टः श्रुतो २० मीमांसकारवाऽथोऽन्यथा नोपपद्यत इत्यदप्रकल्पनाऽ
प्रमाणान्तरत्वव्यव- पत्तिः” इति । दृष्टः शाव्दव्यतिरिक्तप्रमाणप__ स्थापनम् ञ्चकाधिगतः । श्रुतः शाब्दप्रमाणाधिगतः । कुमारिलोऽप्येतदेव भाष्यकारवचो विवृण्वन्प्राह । “प्रमाणषट्कवि
१ मी. ला. वा. स. ५ उ. प. श्लो. ४३, ४४, ४५, ४६. २ 'मानान्तरतया' इति म. पुस्तके पाठः । ३ ' इत्यर्थकल्पना । यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना ' इति शबरस्वामिना मीमांसादर्शनशाबरभाष्ये १-१-५. ४ मी. श्लो. वा. सु. ५ अर्था. प. श्लो. १.
"Aho Shrut Gyanam"