________________
२७५
परि. २ सू. 11 स्याद्वादरत्नाकरसहितः
" सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् ।। भयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥१॥" भूयसामवयवसामान्यानां जात्यन्तरोपलक्षितेऽवयविनि योगो यस्तत्सादृश्यम् । तच सदृशप्रत्ययोत्पादकत्वेनार्थक्रियाकारित्वाद्वस्त्ववेत्यर्थः । सजातीये सर्वावयवसामान्यसद्भावात्सादृश्यं नास्तीति ५ ज्ञापनार्थ जात्यन्तरग्रहणमिति । अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यम् । गवयविषयेण हि प्रत्यक्षेण गवयो विषयीकृतो न त्वसनिहितोऽपि सादृश्यविशिष्टो गौस्तद्विशिष्टं या सादृश्यम् । यच्च पूर्व गौरिति प्रत्यक्षमभूतस्यापि गवयोऽत्यन्तमप्रत्यक्ष एवेति कथं गवि तदपेक्षं तत्सादृश्यज्ञानम् । उक्तं च । " तस्माद्यस्मयते तत्स्यात्सा- १० दृश्येन विशषितम् । प्रमेयमुफ्मानस्य सादृश्यं वा तदन्वितम् ॥१॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥ २ ॥ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ॥ विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥३॥" इति । न चेदं प्रत्यक्षम् । परोक्षविषयत्वात् सविकल्पकत्वाच्च । १५ नाप्यनुमानम् । पक्षधर्मान्वयव्यतिरेकिणामसम्भवात्प्रत्यक्षवत् । तथा ह्येतत्सदृशो गौरिति गवयसादृश्यविशिष्टे गव्यनुमेये सादृश्यं वा लिङ्गं परिकल्प्येत गवयो वा । सादृश्यमपि गोगतं गवयगतं वा । न तावदोगतम् । तद्धि गवयसादृश्यविशिष्टगोज्ञानात्पूर्व प्रमेयैकदेशस्य गोधमिणो लिङ्गं परिकल्पितं न धर्मत्वेन गृह्यते । तथाप्रतीतेरभावात् । २० तत्प्रमेयत्वाच्च तस्य प्रतिज्ञार्थंकदेशत्वेन पक्षधर्मत्वासम्भवान्न लिङ्गता । मापि गवयगतम् । तत्र हि गृह्यमाणं सादृश्यं न गोसम्बन्धिनः सादृश्यस्थानुमापकम् । वैयधिकरण्येन पक्षधर्मत्वासम्भवात् । नापि च गवयो लिङ्गम् । गवा सह सम्बन्घाभावात्तद्धर्मत्वानुपपत्तेः । न च
१मी. श्लो. वा. सू. ५ उ. प. श्लो. १८.२ मी. ग्लो. वा. सु. ५ उ. प.लो. ३७, ३८, ३९.
"Aho Shrut Gyanam"