________________
परि. २ सु. १ ]
स्याद्वादरत्नाकर सहितः
शब्दत्वं गमकमनैकान्तिकत्वादिति भावः । " व्यक्तिरेव विशेष्यातो हेतुका प्रसज्यते ॥ ४ ॥ " अस्यार्थः- अतः शब्दगोशब्दत्वसामान्ययोरगमकत्वासिद्धत्वाभ्यां हेतुत्वनिषेधाद्यतिरेव शब्दलक्षणा एकार्थवत्त्वेन साध्यधर्मेण विशेष्या, हेतुतया वाऽभिघातव्या इति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वम् । शब्दस्यैव धर्मित्वेन ५ हेतुत्वेन चाऽभिधानादिति । न चार्थान्वयः शब्दस्यास्ति । विद्यमानस्य ह्यन्वेतृत्वं नाविद्यमानस्य । यत्र हि धूमस्तत्रावश्यं वह्निरस्तित्वेन प्रसिद्धोऽन्वेता भवति धूमस्य । नत्वेवं शब्दस्यार्थेनान्वयोऽस्ति । न हि तत्त्वशब्दाक्रान्ते देशेऽर्थस्य सद्भावः । न खलु यत्र मृद्वीकादिशब्दः समाकर्ण्यते तत्र कादिरर्थोऽप्यस्ति । नापि शब्दकालेऽर्थोऽवश्यं भवति । तथा १० हि । " वक्तुं सर्वे यदाज्ञां करकमलमिलन्मौलयो भूमिपालाः । सोऽयं शौण्डीर्यवर्याः सुचिरमरचयन्यत्र विश्रम्भवुद्धिम् ॥ लङ्कालङ्कारकल्पः सकलकुवलयोद्धतकात पत्रः । क्रव्यादां चक्रवर्ती समजनि स पुरा रावणः शक्रशत्रुः || १ || अस्मिन्नेव महीतले हि कियतः कालात्पुरो भूमिभृन्मौलिश्लिष्टकिरीटकोटिघटनाघृष्टांघ्रिपीठः सदा ।। १५ निःशेषक्षितिरक्षणक्षमभुजः पुसां शिरोभूषणं । श्रीसंघ भविताभि-रामरुचिमान्वात्यावितश्चक्रभृत् || २ ||" इत्यादिशब्दाः सम्प्रति श्रूयमाणत्वेन वर्त्तमानास्तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽर्थैः शब्दस्यान्वेतृत्वम् । अथ मतम्, नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह न भिन्नकालता । नापि भिन्नदेशता । व्यापित्वात्सर्वदेशावष्टम्भे- २० नावस्थितेः । अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यत्वं विभुत्वं च तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । किं तर्हि येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात् । तेनार्थेन सह सर्वत्र देशे
१ मी. लो. वा. सू. ५ रा. प. श्लो. ६४.
"Aho Shrut Gyanam"
२७३