________________
२७२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सू.१
तथा हि ते सङ्गिरन्ते शाब्द तावच्छब्दसामग्रीतः प्रभवति न चास्य प्रत्यक्षता । सविकल्पकस्वभावत्वात् । नाप्यनुमानता,निरूपलिङ्गाप्रभवत्वात् अनुमानगोचराविषयत्वाच्च । तदुक्तम् ।
" तस्मादननुमानत्वं शाब्दे प्रत्यक्षवदवेत् । ५ त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ १॥"
इति । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तादृशेन विषयेण रहितत्वं शाब्दे सामान्यमात्रविषये सुप्रसिद्धं त्रैरूप्यरहितत्वं च । तथा हि न शब्दम्य पक्षधर्मत्वम् । धर्मिणोऽस
म्भवात् । न वाऽर्थस्थ धर्मित्वम् । तेन तस्य सम्बन्धासिद्धेः । न १० वाप्रतीतेऽर्थे तद्धर्मतया शब्दस्य प्रतीतिः सम्भविनी । प्रतीते
वाऽर्थे तद्धर्मतया शब्दस्यः प्रतीतिर्नोपयोगिनी । तामन्तरेणाप्यर्थम्य प्रागेव प्रतीतेः । अथ शब्दो धर्मी अर्थवानिति साध्यो धर्मः शब्द एव च हेतुरिति चेत्, न । प्रतिज्ञार्थंकदेशत्वप्राप्तेः। शब्दो हि
धम्मितयोपात्तः स एव हेतुरिति । अथ शब्दत्वं हेतुरिति न प्रतिज्ञा१५ थैकदेशत्वम् । न । शब्दत्वस्यागमकत्वात् । अवान्तरसामान्यं तर्हि
गोशब्दत्वं हेतुर्भविष्यतीति चेत् । न । तस्यासिद्धत्वात् । उक्तं च । "विषयोऽन्यादृशस्ताबद्दश्यते लिङ्गशब्दयोः ।। सामान्यविषयत्वं च पदस्य स्थापयिष्यते ॥ १॥ धर्माधर्मविशिष्टश्च लिङ्गीत्येतच
साधितम् । न तावदनुमानं हि यावत्तद्विषयं न तत् ॥२॥ २० तद्विषयमिति धर्मविशिष्टधम्मिविषयम् । “अथ शब्दोऽर्थवत्त्वेन
पक्षः कस्मान्न कल्प्यते ॥३॥ प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते । शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते ॥" शब्दत्वं गमकं नात्रेति, अर्थविशेषो पत्रानुमित्सितो न चास्य
१ मीमांसाश्लोकवार्तिके सू. ५ शब्दपरिच्छेदे श्लो. ९८. २ मीमांसाश्लो. सू. ५ श.परि. श्लो. ५५-५६. ३ मी. श्लो. वा. सू. ५ शब्दप. श्लो. ६२, ४ मी. श्लो. वा, सू. ५ श. प. श्लो. ६३-६४.
"Aho Shrut Gyanam"