________________
परि. २ सू. १]
स्याद्वादरत्नाकरसहितः
ज्ञप्तिः । प्रत्यक्षादनुमानाद्वा । न तावत्प्रत्यक्षात् । तेन सामान्यस्याग्रहणात् । ग्रहणे वा तस्य सविकल्पकत्वप्रसक्तिर्विषयसंकरश्च प्रमाणद्वित्वविरोधी भवतः प्रसज्येत । नाप्यनुमानात् तेन स्वलक्षणस्याग्रहणात् । स्वलक्षणपराङ्कखतया हि भवतानुमानमभ्युपगतम् । द्वाभ्यां प्रमेयद्वित्वस्याज्ञानेऽन्यतरस्यापि प्रमाणद्वित्वज्ञापकत्वायोगः । अन्यथा देवदत्तयज्ञदत्ताभ्यां प्रतिपन्नाद्धमद्वित्वात्तदन्यतरस्याभिद्वित्वप्रतिपत्तिः स्यात् । द्वैविध्यमिति द्विष्ठो धर्मः । स च द्वयोज्ञाने ज्ञायते नान्यथा । न ज्ञातसय विन्ध्यस्य प्रतिपत्तुस्तद्गतद्वित्वप्रतिपत्तिरस्ति । प्रमाण द्वित्वात्तु प्रमेयद्वित्वसिस्वीकारे परस्पराश्रयदोषानुषङ्गः । सिद्धे हि प्रमेयद्वित्वेऽतः प्रमाणद्वित्वसिद्धिस्तस्याश्च प्रमेयद्वित्वसिद्धिरिति । अथान्यतः १०. प्रमाणाद्दित्वस्य सिद्धिः । व्यर्थस्तहिं प्रमेयद्वित्वोपन्यासः । ननु प्रत्यक्षानुमानयोः स्वसंवेदनप्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्धमेव प्रमाणद्वित्वम् । केवलं यस्तथाप्रतिपद्यमानोऽपि न व्यवहरति स प्रसिद्धेन प्रमेयद्वैविध्यव्यवहारेण प्रवर्त्यत इति चेत् । तदप्यसारम् । प्रमेयद्वैविध्यस्यासिद्धत्वेनाभिहितत्वात् । ननु मा सिध्यतु प्रमेयद्वैविध्यं तथापि न १५ प्रमाणद्वित्वं व्याहरति रागादीनामनुमानादनर्थान्तरत्वात् । शब्दादिकं हि परोक्षणार्थेन सह सम्बद्धमसम्बद्धं वा तस्य गमकम् । न तावदसम्बद्धम् । अतिप्रसङ्गात् । सम्बद्धं चेत्, तर्हि तल्लिङ्गमेव । तज्जनितं च ज्ञानमनुमानमेवेति चेत् । तदप्यनुचितम् । प्रत्यक्षस्याप्येवमनुमानत्वप्रसङ्गात् । तदपि स्वविषयेण सम्बद्धं सत्तस्य गमकं नान्यथा । २० सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वापत्तेः । अथ स्वविषयसम्बद्धत्वाविशेघेsपि प्रत्यक्षानुमानयोः सामग्र्यादिभेदात्प्रमाणान्तरत्वम् ।
शाब्दस्य मीमांसकमतेन
प्रत्यक्षादनुमानाच्च
पृथक्त्वव्यवस्थापनम्
१ हि ' इत्यधिकं प.
C
प. भ. पुस्तकयोः पाठः ।
भिक्षो तदानीं बत दुर्विदग्धाः शाब्दो पमादेरपि जैमिनीयाः ||
प्रमान्तरत्वं प्रतिपादयन्तः
कथं त्वयैते प्रतिषेधनीयाः ॥ २८८ ॥
पुस्तके 1
२ व्याहन्यते आगमादीनां ' इति
"Aho Shrut Gyanam"
२०१
२५.