________________
२७०
प्रमाणनयतत्त्वालोकालङ्कारः पिरि. २ सू. १ हेतोरनन्वयो वा भवेत् । यदपि मूलानुमानविषयापहारिण इत्यादि प्रत्यपादि । तदपि न चतुरस्रम् । सम्यक्साधने प्रयुक्तेऽनुमानविरोधादिपांसुप्रकरपातानामसम्भवात् । उक्तं च तन्त्रवृत्तौ भट्टोद्धटेन " सर्वश्व दूषणोपनिपातोऽग्रयोजकहेतुमाक्रामतीत्यप्रयोजकविषया विरुद्धानुमानविरोधविरुद्धाव्यभिचारिण" इति । एवं च देशकालदशाभेदेत्यादिकारिकाकदम्बकमपि विडम्बितमवबोद्धव्यम् । यदप्युक्तं स्मृत्यादिकेऽपीत्यादि । तदप्यनुपपन्नम् । स्वार्थे संवादस्य स्मृत्यादिकेऽपि प्रमाणे समर्थयिष्यमाणत्वात् ।। एवं स्वर्गापवर्गप्रकटनविहितौ बद्धकले परोक्षे ___सम्प्राप्ते मानभावं झटिति विघटितो नास्तिकस्याभिसन्धिः ॥ तस्मादास्तिक्यमेक मनसि शुभलतोल्लासजीमूतकल्पं
मत्वा सद्धर्मकर्म प्रतनुत सततं स्वेष्टसिद्धथै विदग्धाः ॥२८६॥" अत्राह सौगतः । “प्रत्यक्षं च परोक्षं च द्वित्वमेवं न युज्यते ।
प्रत्यक्षमनुमानं चेत्येतत्तु घटतेतराम् ॥ १ ॥ प्रत्यक्षमनुमानमिति द्वय
आः कुमते मैवं वोचः । यतः स्वलक्षणसामान्यातस्योपपादनपूर्वकं ख्यप्रमेयद्वैविध्यात्प्रमाणद्वैध्यमित्याकूतं भवतः
७ तदनुचितम् । तथाविधप्रमेयद्वैविध्यस्थासम्भवात् । एक एव हि सामान्यविशेषात्मार्थः प्रमेयः प्रमाणस्येति पुरस्तादुपपा
दयिप्यते । यदि च प्रत्यक्षस्य स्वलक्षणमात्र विषयत्वमिप्यते । तदा २० ततः स्थिरस्थूराद्याकाराध्यवसायेन प्रवृत्तिर्न स्यात् ।
विज्ञानमन्यगोचरमन्यत्रार्थे प्रवर्तकमितीदम् ।।
व्यक्तं भवता कैतवमभ्यस्तं सौगत कुतोऽपि ॥ २८७ ।। भवतु वा प्रमेयद्वित्वं तथापि तत्प्रमाणद्वित्वस्य ज्ञातमज्ञातं वा ज्ञापकं भवेत् । यद्यज्ञातम्, तर्हि तस्य सर्वत्राविशेषात्सर्वेषामप्यविशेषेणं २५ तत्प्रतिपत्तिप्रसङ्गतो विप्रतिपत्तिर्न स्यात् । ज्ञातं चेत्, कुतस्तस्य
१ विशेषेण ' इति भ. पुस्तके पाठः ।
१५ मेव प्रमाणा
खण्ड
"Aho Shrut Gyanam"