________________
४४१
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः माने क्षित्यादिवर्तिनि बुद्धिमत्पूर्वकत्वसामान्ये साधनानहें साधनं योजयति । न च सम्भवति तादृशो विशेषः । यमाथाय क्षिल्यादौ बुद्धिमपूर्वकत्वसामान्य व्यवतिष्ठेत । न चैवं सर्वानुमानोच्छेदप्रसङ्गः । सम्भवद्विशेषविषयत्वादितरेषामनुमानानाम् । न हि न सम्भवति पर्वतनितम्बवती बहिर्विशेषः । तम्माद्यथा कश्चिन्निशान्तमसिमच्छेद्यमाकाशं ५ प्रति व्यापारयन्पुरुषो निगृह्यते, न पुनरसिराकाशं वा । तद्वत् कार्यत्वमपीश्वर इति । यच्च पक्षधर्मातासमर्थनाप्रस्ताब एवोक्तम् ! ये हि यत्कारस्ते तदुपादानाद्यभिज्ञाः । यथा कुलालादयः । सर्वेषां च कार्याणामीश्वरः कर्तेति । तदप्ययुक्तम् । यतः किमेते कुलालादयः स्वकार्यस्य निरवशेषोपादानोपकरणादिवेदिनः कतिपयोपादानोपकरणा- १० दिवेदिनो वा । नाद्यः पक्षः । अदृष्स्य सर्वोत्पत्तिमतां निमित्तहेतोरुपकरणम्यापरिज्ञानात् । नापि सम्प्रदानप्रयोजनविशेषवेदिनः । तस्य सम्प्रदानभेदस्य देवदतादेः प्रयोजनभेदस्य च मधूदकधारणादेरनेकस्यापि सम्भवात् । अथोपादानोपकरणादिमात्र विज्ञानं न समस्तोपादानोपकरणज्ञानं कुलालादीनाम् । तर्हि तेनैव निदर्शनेनेश्वरस्यापि १५ तदुपकरणमात्रज्ञानं स्यात् । तन्मात्रज्ञाने च सर्वज्ञताऽसिद्धेः । कतिपयज्ञो हि तथा सति स्यात् । अथ चोन्मत्तादिवत्तावन्मात्रज्ञानमपीश्वरस्य न सिध्यति । तथा हि । गुजति गुञ्जति गर्जति गायति श्वसिति शुध्यति शाम्यति शङ्कते ॥ खलति खेलति खादति खियते मिषति मेद्यति माद्यति मद्यपः ॥४१०॥ २०
न चास्य वचनादिहेतूनां ताल्वादिकानां परिज्ञानमास्ति । निरभिप्रायस्यैव तस्य तत्र तत्र प्रवृत्तिदर्शनात् । यदप्यवादि न हि यत्कार्यं तदखिलमपि कृतबुद्धिमात्मन्युपजनयतीति नियम इत्यादि । तदपि न निकृत्रिमम् । कृत्रिममणिमौक्तिकादौ खातप्रपूरितवसुन्धरायां वाऽकृत्रिममणिमौक्तिकभूभागादिसंस्थानसारूप्यम्य कृत्रिमबुद्धेर- २५ नुत्पादकस्य सद्भावतस्तदनुत्पादस्योपपत्तेः । न च भूभूधरादावप्यकृतक
"Aho Shrut Gyanam"