________________
परि. २ सू. २६ ]
स्याद्वादरत्नाकरसहितः
अपार करुणापूरात्किं वा किंवा स्वभावतः || एकादशैवमेते स्युः प्रकाराः परदुःसहाः || ३८७ ॥
जायेत पौरस्त्यविकल्पनायां कदाचिदन्याहमपि त्रिलोकी ॥ न नाम नैयत्यनिमित्तमस्याः किञ्चिद्विरूपाक्षरुचेः समस्ति ॥ ३८८ ॥ करोत्ययं तां यदि कर्मतन्त्रः स्वतन्त्रतैतस्य तदा कथं स्यात् ॥ सखे स्वतन्त्रत्वमिदं हि येषां परानपेक्षैव सदा प्रवृत्तिः ॥ ३८९ ॥ कर्मव्यपेक्षस्य च कर्तृतायामीशस्य युक्ता न खलु प्रवृत्तिः ॥ कर्मैव यस्मादखिलत्रिलोकीं करिष्यते चित्रविपाकपात्रम् ॥ ३९० ॥ नाचेतनं कर्म करोति कार्यमप्रेरितं चेदिह चेतनेन || यथा मृदित्येतदपास्यमानमाकर्णनीयं पुरतः सकर्णैः ॥ ३९१ ॥ तृतीयकल्पे कृतकृत्यभावः कथं भवेद्भूतपतेः कथञ्चित् ॥ प्रयोजनं तस्य तथाविधस्य धर्मादिकं हन्त विरुध्यते यत् ॥ ३९२ ॥ अथापि शम्भुर्जगतां विधाने प्रवर्तते क्रीडनकौतुकेन ॥ कथं भवेत्तर्हि स वीतरागः सखे प्रमत्तार्भकमण्डलीय ॥ ३९३ ॥
पश्यन्पत्तनमत्र भूपतिरथं राज्ञीयमेते सुता
स्तन्तस्तुरगा इमे मदमुचामेषां घटा दन्तिनाम् ||
सामन्ताः समयं नमन्ति नितरामेते तदेवं शिशु
वातोऽप्यारमति स्फुटं सिकतिलस्रोतस्विनीनां तटे || ३९४ ॥
उत्पत्तये न च सुखस्य तथा प्रवृत्तिः शम्भोर्यतः सुखगुणोऽत्र न सम्मतस्ते ।
स स्वीकृतो दशगुणेश्वरवादिभिर्यैस्तैरप्यसावुपगतो बत नित्य एव ॥ ३९६ ॥
४१३.
" Aho Shrut Gyanam".
१०
विनिग्रहानुग्रहसाधनाय प्रवर्त्तते चेगिरिशस्तदानीम् ॥
विरागता द्वेषविमुक्तता वा तथाविधस्वामिवदस्य न स्यात् ॥ ३९५ ॥ २०
१५.