SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. १ सू. २६ तथा हि यौगाः सततं विमुक्तिनिर्दोषतासिद्धिकते शिवस्य 1 सा संगति नैति यतो विरोधः सातत्यमुक्त्योरिह दुर्निरोधः ॥ ३७७|| मुक्तः प्रसिद्धः सुधियां स एव यस्य ध्रुवं बन्धविधिः पराभूत् ॥ उच्छृङ्खलेभ्यः खलु शृङ्खलेभ्यो यथा व्यपेतः पुरुषोऽत्र मुक्तः ॥ ३७८ ॥ ५ वन्धे च सत्यस्तु कथं कथञ्चिन्मुक्तौ सदात्वेन समन्वितत्वम् ॥ स्याच्चेत्तदा चन्द्रकलावचूलः कार्यं सत्येतदपि स्फुटं स्यात् ॥ ३७९ ॥ कार्यतैवास्य नास्तीति तस्याः सखे किं सदात्वं घटाकोटिमाटीकते ॥ मुक्ततैवास्य नास्तीति तस्याः सखे किं सदात्वं घटाकोटिमाटीकते ॥ ३८० ॥ १० मुक्ततास्त्येव चेत्पार्वतीप्रेयसः कार्यताध्यस्ति सत्यं त्वदुत्प्रेक्षया ॥ कारणाभावतः कार्यता नास्ति चेन्मुक्तता मास्तु बन्धक्षयाभावतः ॥ ३८१ ॥ ४१२ १५ ध्वस्तमोहेन कन्दलीकृन्मतं नेश्वरो मुक्तिमान्नैव बद्धो यतः ॥ नाप्यमुक्तो न यत्क्लेशसंश्लेषवान्नित्यमुक्तस्ततो युक्तितः स्यादिति ॥ ३८२ ॥ यञ्चपि विश्वत्रयसूत्रणायामेकः परं शाश्वतसूत्रधारः || कात्यायनी कामुक इत्यकीर्ति कीर्त्ति तद्यत्र न ते करोति ॥ ३८३ ॥ तथा हि शशभृन्मौलेस्त्रैलोक्यघटना भवेत् ॥ यथारुचि प्रवृत्तिः किं कर्मतन्त्रतयाथवा ॥ ३८४ ॥ २० धर्म्माद्यर्थमथेोद्दिश्य यद्वा क्रीडाकुतूहलात् ॥ निग्रहानुग्रहार्थं वा सुखस्योत्पत्तयेऽथ वा ॥ ३८५ ॥ यद्वा दुःखविनोदार्थं प्रत्यवायक्षयाय वा ॥ भविष्यत्प्रत्यवायस्य परीहारकृते किमु || ३८६ ॥ १' यथाहि ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy