________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः संबाहुभ्यां धमति संपतत्रैावाभूमी जनयन् देव एकः” इति । अत्रं प्रथमेन विशेषणेन सर्वज्ञत्वं लभ्यते, चक्षुषा दृष्टेरुपलक्षणात् । द्वितीयेन वक्तृत्वम् , मुखेन वागुपलक्षणात् । तृतीयेन सर्वसहकारित्वम् , बाहुना साहाय्योपलक्षणात् । चतुर्थेन व्यापकत्वम् , पदा व्यातेरुपलक्षणात् । पञ्चमेन धर्माधर्मलक्षणप्रधानकरणत्वम् , तौ हि ५ लोकयात्रावहनावाहू षष्ठेन परमाणुरूपप्रधानाविष्टेयत्वम् । ते हि गतिशीलत्वात्पतन्तीति व्युत्पत्त्या पतत्रव्यपदेश्याः । सन्धमति संजनयन्निति च व्यवहितोपसर्गसम्बन्धः । ते न संयोजयति उत्पादयतीति वार्थः । द्यावेत्यूर्चसप्तलोकोपलक्षणम् । भूमीत्यधस्तात् । एकेत्यनेनानादिता लक्ष्यत इति । तथा " अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स १० शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुष महान्तम्" । स्मृतिरपि " अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा” इति । व्यासवचनं च, "द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मे- १५ त्युदाहृतः । यो लोकत्रयमाविश्य बिमर्त्यव्यय ईश्वरः॥३॥” इति ।। तस्मादेकः सकलजगतां सूत्रणासूत्रधारः __कर्मक्लेशादिभिरभिहतः क्वापि काले न नाम । नित्यज्ञानाद्विशदविदिताशेषविश्वप्रपञ्चः
सोऽयं सिद्धस्त्रिपुरविजयी जात्ययुक्तिप्रबन्धात् ॥ ३७५ ।। २० हो विमोहबदसत्यमपास्य शाठ्यं __ क्रीडा तवेयमथवा हृदि कोऽपि कोपः ।। येनास्तिकानपि वितर्कपटूनपीमान्
योगान्विमोहयसि विश्वविदः स्वरूपे ।। ३७६ ॥
१' अत्र च ' इति प. भ. पुस्तकयोः पाठः। २ श्वेताश्वतरोपनिषत् ३११९. ३ म. भा. व. प. अ. ३० श्लो. २.. ४ भ.गी. अ. १५ श्लो. १६१७,
"Aho Shrut Gyanam"