________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ एकत्वं च क्षित्यादिकर्तुः । अनेकेषां कारकाणामेकाधिष्ठातृनियमितानां प्रवृत्तिप्रतीतेः । अनेकेषां स्थपतीनामेकसूत्रधारनियमितव्यापाराणां प्रासादादिकार्यकरणे प्रवृत्तिः प्रतीयते । न च त्रिलोचनस्य तज्ज्ञानस्य
च नित्यतायामेकरूपतायां च कार्याणां कादाचित्कत्वं वैचित्र्यं च ५ विरोधमधिरोहति । कादाचित्कविचित्रसहकारिलाभेन कार्याणां कादाचिरकत्वस्य वैचित्रस्य चोपपत्तेः । अथ यथाकाललब्धपरिपाकाभ्यां धर्माधर्माभ्यामेव च शरीरादिसकलकार्योत्पत्तिर्भविष्यति किमीश्वरकल्पनयेति चेत् । तदपि न क्षोदक्षमम् । धर्माधर्मयोरचेतनयोश्चेतन
मधिष्ठातारमन्तरेण स्वकार्ये कचिदपि प्रवृत्त्ययोगात् । तथा हि धर्मा१० धौं चेतनाधिष्ठितौ स्वकार्ये प्रवत्तेते अचेतनत्वाद्यदित्थं तदित्थं यथा
कुठारस्तथा चैतौ तस्मात्तथा । न चास्मदात्मैव धर्माधर्मयोरधिष्ठायकत्वेन कल्पनाह: । तस्य साक्षात्कारिसंवेदनासम्भवात् । नाप्यचेतनस्य कस्यचिदकस्मादेव प्रवृत्तिरुपपद्यते । अन्यथा निष्पन्नेऽपि कार्ये तत्प्रवर्तेत ।
विवेकविकलत्वात् । अथ कथमयं धर्माधविधितिष्ठति क्षेत्रज्ञेष्वेव १५ तयोः समवेतत्वात् । उच्यते । सम्बन्धात् । न हि साक्षात्संयोगसम
वायावेव सम्बन्धौ । संयुक्तसंयुक्तसमवायस्यापि तद्भावात् । संयुक्ताः खल्वीश्वरेण क्षेत्रज्ञशरीराधारम्भकाः परमाणवस्तैश्च क्षेत्रज्ञास्तत्समवेतौ च धर्माधर्माविति । संयुक्तसमवायो वा । क्षेत्रज्ञैरीश्वरस्थ
संयोगात् । अनुमानादजसंयोगसिद्धेः । तथा हि ईश्वरः क्षेत्रज्ञसंयुक्तो २० मूर्तद्रव्यसंयोगित्वाद्यो मूर्तद्रव्यसंयोगी स क्षेत्रज्ञसंयुक्तो यथा घटस्तथा
चायं तस्मात्तथा । स चास्य संयोगोऽन्यतरोभयकर्मसंयोगानां तत्कारणानामभावादजः । न च वाच्यं धमाधम्मौ परमाणून्वा स्वधर्माधर्मानुपगृहीतान्कथमीश्वरः प्रेरयतीति | विषविद्याविदा स्वकीयधर्मा
धर्मानुपगृहीतस्य विषस्य प्रेरणदर्शनादिति । भवति चात्र श्रुतिः२५ " विश्वतश्चक्षुस्त विश्वतो मुखो विश्वतो बाहुरुत विश्वतः पात् ।
१ श्वेताश्वतरोपनिषत् ३१३.
"Aho Shrut Gyanam"