SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः उपकरणं समस्तक्षेत्रसमवायिनी धमाधौ । सम्प्रदानं क्षेत्रज्ञाः । यानयं स्वकर्मभिरभिप्रेति । प्रयोजनं सुखदुःवोपभोगः क्षेत्रज्ञानामिति । तेन यद्यपि बुद्धिमद्धेतुकत्वमात्रं व्याप्तिविषयस्तथापि तद्विशेषम्य पक्षधर्मताबलात्प्रतिलम्भ इति विशेषविषयमनुमानम् । न चोक्तदोषप्रसङ्गः । स्यादेतन्न कार्यत्वमात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन । किन्तु तद्वि- ५ शेषः । यद्दष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते । तस्य च दृष्टेः सोपजायते यद्बुद्धिसद्भावामावानुविधावि दृष्टम् । घटादिकार्बविशेषश्च तथा न कार्यमानं तनु वनाद्यपि । तस्य तद्भावाभावानुविधानादर्शनात् । तदेतेन विशेषेणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकल्यव्याप्तिमुपजीवन् कार्यत्वसामान्य न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हति । इतरथा १० धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीवतः पाण्डुत्वादेः कुमुदकपोतादिगतादपि मकरकेतनानुमानप्रसङ्गः । तन्यायबाह्यम् । न हि यत्कार्यं तदखिलमपि कृतबुद्धिमात्मन्युपजनयतीति नियमः कृत्रिममणिभौक्तिकेषु खातप्रतिपूरितपृथिव्यां च तथादर्शनाभावात् । किं च कोऽयं कार्यत्वस्य विशेषः । किं बुद्धिमदन्वयव्यतिरेकानुविधानं तद्दर्शनं वा ! १५ यदि पूर्वः कल्पः । स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव । न हि कारण कार्याननुविहितभावाभावमन्यो वक्तुमहति ग्रहगृहीतात् । अथ तद्दर्शनम् । तर्हि य एव पटोऽनेन बुद्धिमदन्वयव्यतिरेकानुविधायी दृष्टः स एव तत्कार्यो न तु विपणिवर्ती । अथ तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधा- २० नमपि तज्जातीय तथेति चेत् । किं न तनुभुवनाद्यपि तथा मन्यते । पटजातीयमेव कार्ये बुद्धिमद्धेतुकमिति चेत् । ननु प्रासादादिकंत तुकं न भवेदपटजातीयत्वात् । अथापटजातीयस्यापि प्रासादादिकस्य केनचिद्विशेषेणास्त्येव पटेन सजातीयत्वम् । तर्हि तनुभुवनादेरपि तथा तत्किं न भविष्यति । ततः स्वभावप्रतिबद्धं कार्यत्वं बुद्धिमद्धेतुकत्वेनेति । २५ १' भवनाद्यपि ' इति ५. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy