________________
४०८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २६ च दृष्टार्थे प्रतिपत्तिर्भवतीति सिषाधयिषितधर्मविपर्ययप्रसाधनाद्विरुद्धं कार्यत्वम् । दृष्टान्तश्च साध्यविकलः । कलशे तथाविधस्य बुद्धिमतोऽभावात् । न च बुद्धिमद्धेतुतामात्रं साधनविषयस्तद्विशेषस्य तु सर्वज्ञत्वस्यातद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम् । यतो यद्यसौ विशेषो न साधनविषयः कथमतस्तत्सिद्धिः । सिद्धत्वाद्विषयश्चेत् । कथं न स्वाश्रयां दोषगति स्पृशेत् । तदसुन्दरम् । सामान्यमात्रव्याप्तावप्यन्तर्भावितविशेषस्य सामान्यस्य पक्षधर्मतावशेन साध्यधर्मिण्यनुमीयमानत्वात्। इतरथा सर्वानुमानोच्छेदप्रसङ्गात् । तथा हि वयनुमानमपि न बहिसामान्यमात्रविषयम् । तस्य प्रागेव सिद्धत्वात् । नापि तद्विशिष्टगिरिगोचरम्। वह्निसामान्यस्य तत्सम्बन्धित्वाभावेन तद्विशेषणत्वानुपपत्तेः । सम्बन्धम्वीकारे तु यथा गोत्वसमवायादगावः शाबलेयादयस्तथा पर्वतो वह्नित्वसमवायाद्वह्निः स्यात् । अस्त्येव वह्नित्वेन गिरेः संयुक्तसमवायः सम्बन्ध इति चेत् । तर्हि नाप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्नि
विशेषस्यैवानुमानम् । तत्र च प्रोक्तदोषप्रसङ्गः । एवमिन्द्रियानुमानेऽपि १५ स एव दर्शनीयः । तथा हि तत्रापि नेन्द्रियकरणिका काचित्
क्रियोपलब्धा । न खलु च्छिदादयः क्रिया इन्द्रियसाधनाः । परश्वधादीनामनिन्द्रियत्वात् । न च परश्वधादिसाधना रूपादिपरिच्छित्तिरूपा क्रिया सम्भवति । तस्माद्यथैव क्रियात्वसामान्यस्य सत्यपि करणमात्रा
धानत्वव्याप्तत्वे पक्षधर्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिस्तथे२०
हापि । सत्यपि कार्यत्वस्य बुद्धिमद्धेतुमात्रव्याप्तत्वे विवादाध्यासितेषु पक्षधर्भतावशाद्विशिष्टस्य बुद्धिमतः सिद्धिः । अन्यथा सामान्यस्यापि व्यापकाभिमतस्य न सिद्धिः स्यात् । निर्विशेषस्य तस्यानुपपत्तेः । न चासर्वज्ञस्य क्षितिधराङ्कुरादिकार्यग्रामोपादानोपकरणसम्प्रदानप्रयोजनानभिज्ञतया तत्कर्तृत्व सम्भवति । ये हि यत्कारस्ते तदुपादानाद्यभिज्ञाः । यथा कुलालादयः । सर्वेषां च कार्याणामीश्वरः कर्तेति समस्तकार्योपादानाद्यभिज्ञाः । उपादानं चेह पार्थिवाद्याः परमाणवः
"Aho Shrut Gyanam"