________________
परि. २ सू. २६ }
स्याद्वादरत्नाकरसहितः
एतेभ्य एव हेतुभ्यो विवादास्पदवस्तुनः । कर्ता यद्वा प्रसाध्योऽत्र तर्कतर्कणकर्कशैः || ३६६ ॥
आकाशकालकाष्ठादेर्व्यावृत्तत्वाद्विपक्षतः । व्यभिचारित्वमप्यत्र कार्यत्वस्य न पेशलम् ॥ ३६७ ॥
अत एव विरुद्धत्वमभिधेयं न घीधनैः । कालात्ययापदिष्टत्वमत्र कालकटाक्षितम् || ३६८ ॥ प्रत्यक्षेणानुमानेन शब्देनाप्यतिरस्कृतात् । पक्षादनन्तरं प्रोक्तं यस्मात्कार्यत्वसाधनम् ॥ ३६९॥
प्रक्रिया समताप्यस्य कीर्त्यमाना न कीर्तिकृत् । विपक्षाक्षेपिका काचिदनुमा नात्र विद्यते ॥ ३७० ॥ अथ स्थाणुर्विवादस्य कर्ता नैवोपपद्यते । शरीररहितत्वेन मुक्तात्मेवेति जल्प्यते || ३७१ ॥ तन्न सद्येन केनापि प्रमाणेन त्रिलोचनः । धर्मी प्रसिद्धस्तेनैव साध्यस्यात्र विसूत्रणात् || ३७२ ॥ सिध्येन्नयं हि तन्वादिविनिर्मितिनिरङ्कुशः । सिध्येत्ततश्च को हेतुस्ते भाति तत्त्वकीलितः ।। ३७३ ॥ दोषैरशेषैरपि विप्रमुक्तैरुयक्षस्य कर्तृत्वविधौ सुदक्षे |
अत्रानुमाने सति जागरूके निराधयः सम्प्रति संचरामः॥ ३७४ ॥
४०७
"Aho Shrut Gyanam"
१०
१५
ननु बुद्धिमद्धेतुतामात्रमत्र सिषाधयिषितं तद्विशेषो वा । आद्ये पक्षे सिद्धसाधनम् । अभिमतं हि परेषामपि बुद्धिमद्धेतुतामात्रं २० गोत्रादौ । कर्म जत्वात्कार्यजातस्य कर्मणश्च चेतनहेतुकत्वात् । द्वितीये तु विरुद्धता हेतोः । तथा हि सकलज्ञो बुद्धिमानत्र साध्यतयामीष्टो दृष्टान्ते च कुटे तद्विलक्षणोऽसौ समुपलभ्यते । दृष्टान्तदृष्टधर्मानुसारेण
१ ' तस्वादि ' इति भ. पुस्तके पाठः ।