________________
परि. २ सु. २६] स्याद्वादरत्नाकरसहितः
४०५ वचनेन कापिलैः प्रकृतेरेव संसाराभ्युपगमतः पुरुषस्य संसाराभावप्रतिपादनात् । सौगतैः पुनः संवृत्त्यैव सर्वव्यवहारस्वीकरणेन परमार्थवृत्त्या संसारानभ्युपगमादिति ।
न संसारस्वरूपं च तदेवमुपपद्यते ॥
स्याद्वादन्यायबाह्यानां सर्वेषामपि वादिनाम् ॥ ३५३ ॥ ५ संसारकारणतत्त्वमप्यपरेषां प्रमाणविरुद्धम् । तद्धि मिथ्याज्ञानमात्रं तैरजीकृतम् । न च तत्कारणकः संसारः । तन्निवृत्तावपि संसारानिवृत्तेः । यन्निवृत्तावपि यन्न निवर्तते न तत्तन्मात्रकारण कम् । यथा सूत्रधारादिनिवृत्तावप्यनिवर्तमानं प्रासादादि न तन्मात्रकारणकम् । मिथ्याज्ञाननिवृत्तावप्यनिवर्तमानश्च संसारः । तस्मान्न मिथ्याज्ञान- १० मात्रकारणक इति । नात्र हेतोरसिद्धिः । सम्यग्ज्ञानोत्पत्तौ सत्यां मिथ्याज्ञाननिवृत्तावपि दोषानिवृत्तौ संसारानिवृत्तेः स्वयमभिधानात् । दोषाणां संसारकारणत्वप्रतिपादकागमस्वीकरणाच्चेति । मिथ्याज्ञानमात्रं संसारकारणतत्त्वं प्रमाणविरुद्धम् । एवं च,
संसारकारणभपीह विचार्यमाणं ___ सन्न्यायतः कथमपि स्थितिमेति नैव ।। जैनेन्द्रदर्शनपराङ्मुखमानसानां
सिद्धिं गतः प्रकृतहेतुरतश्च नूनम् ॥ ३५४ ॥ एवं प्रसिद्धत्वे प्रमाणविरुद्धभाषित्वादिति हेतोः कपिलादीनां सदोषत्वं सिद्धम् । तथा च,
नैवैते कपिलादयः कथमपि प्राप्तुं भवन्तीश्वराः ___ सर्वज्ञत्वमशेषदोषविसरप्रभ्रंशलभ्योद्भवम् ।। अर्हन्नेव ततः समस्तजगतां साक्षात्कृतौ प्रत्यल: सिद्धः प्रौढतरप्रमाणवशतः प्रेक्षावतां पश्यताम्।। ३५५।।
२०
"Aho Shrut Gyanam"