________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. २ सु. २६
तपोतिशयहेतुकं परनिःश्रेयसमायातम् । समाधिविशेषादुपात्ताशेषकर्मफलोपभोगाभ्युपगमाददोष इति चेत्, कः पुनरसौ समाधिः । स्थिरीभूतं ज्ञानमेव स इति चेत्, तदुत्पत्तौ परनिःश्रेयसस्य भावे स एवाप्तस्योपदेशाभावः । ननु सकलतत्त्वज्ञानस्यास्थैर्यावस्थायामसमाधि५ रूपस्योत्पादे युक्तो योगिनस्तत्त्वोपदेश इति चेत्, नैतदुपपन्नम् । सकलतत्त्वज्ञानस्यास्थैर्य विरोधात् । तस्य कदाचिञ्चलनादुपपत्तेः । यौगपद्येन प्रवृत्तत्वाद्विषयान्तरसंचारणाभावात् । अन्यथा सकलतत्त्वज्ञानत्वासम्भवादस्मददिवत् । अथ तत्त्वोपदेशदशायां योगिनोऽपि ज्ञानं विनेयजनप्रतिबोधाय व्याप्रियमाणम स्थिरमसमाधिरूपं पश्चान्निवृत्तसकल१० व्यापारं स्थिरं समाधिव्यपदेशमास्कन्दतीत्युच्यते । तर्हि समाधिश्चारित्रमिति नाममात्रं भिद्यते नार्थः । तत्त्वज्ञानादशेषाज्ञाननिवृत्तिफलादन्यस्य परमोपेक्षा लक्षणस्य स्वभावस्य समुच्छिन्न क्रियाप्रतिपातिपरमशुक्लध्यानस्य तपोतिशयस्य समाधिव्यपदेशकारणत्वात् । तथा च चारित्रसहितं तत्त्वज्ञानमन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयस कारणमनि१५ च्छतामपि कपिलादीनामग्रे व्यवस्थितम् । ततोऽनुमानविरुद्धं सर्वथैकान्तवादिनां मोक्ष कारणतत्त्वं स्वागमविरुद्धं च । सर्वेषामाग प्रव्रज्याद्यनुष्ठानस्य सकलदोषापगमस्य च चारित्रस्य मोक्षकारणतया श्रवणात् ।
बाह्यस्याभ्यन्तरस्य च
४०३
२०
तदित्थं कपिलादीनामभिप्रायेण सर्वथा ||
न मोक्षकारणं किञ्चिद्धटामञ्चति तत्त्वतः ॥ ३५२ ॥ संसारतत्त्वं चान्येषां प्रमाणविरुद्धम् । तथा हि नास्ति नित्यत्वादि एकान्ते कस्यचिद्विक्रियानुपलब्धेरित्यनुमानविरोधः । तथागमविरोधध, " तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ॥ संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ १ ॥” इति
१' अस्मदादिज्ञानवत्' इति प. पुस्तके पाठः । २ ' कारणात्' इति प. भ. पुस्तकयोः पाठः । ३ सां का. ६२.
"Aho Shrut Gyanam"