________________
४०३
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः प्रमाणेन बाध्यते । चित्तानां तत्त्वतोऽन्वितत्वस्य सर्वथा सन्तानोच्छेदानुपपत्तेश्च समर्थयिष्यमाणत्वात् । निरन्वयक्षणक्षयैकान्ताभ्युपगमे च मोक्षाङ्गीकारबाधनस्याभिधास्यमानत्वादिति । __तदित्थं बौद्धसिद्धान्तवासनाग्रस्तमानसः ।।
मोक्षस्वरूपं कथितं न न्यायमनुगच्छति ॥ ३५१॥ ५ तथा मोक्षकारणतत्त्वमपि कपिलादिभिः परिकल्पितं प्रमाणकपिलादिपरिकल्पितमो-विरुद्धम् । तथा हि ज्ञानमात्रं न परं निःश्रेयसक्षकारणतत्त्वसंसारत- कारणम् । प्रकर्षपर्यन्तावस्थायामप्यात्मनि
त्वयोः खण्डनम् । शरीरेण सहावस्थानान्मिथ्याज्ञानवत् । न तावदिहासिद्धो हेतुः। सर्वज्ञानामपि कपिलादीनां प्रकर्षपर्यन्तावस्थाप्राप्तस्यापि १० ज्ञानस्य शरीरेण सहावस्थानाभ्युपगमात् । साक्षात्सकलार्थज्ञानोत्पत्त्यनन्तरं शरीराभावे कुतोऽयमाप्तस्योपदेशः प्रवर्तेत । अशरीरस्याप्तस्योपदेशकरणविरोधादाकाशवत् । अनुत्पन्नसकलार्थज्ञानस्याप्तस्योपदेश इति चेत्, मैवम् । तथाविधाप्तोपदेशस्याप्रमाणत्वशङ्कनानिवृत्तेः । अन्याज्ञानपुरुषोपदेशवत् । यदि पुनः शरीरान्तरानुत्पत्तिनिःश्रेयसं १५ न गृहीतशरीरनिवृत्तेः । शरीरान्तरानुत्पत्तिरूपस्य च निःश्रेयसस्य साक्षानिखिलतत्त्वज्ञानं कारणम् । नतु गृहीतशरीरनिवृत्तिः फलोपभोगाद्गृहीतशरीरनिवृत्तेः स्वीकारात् । ततः पूर्वोपात्तेन शरीरेण सहावतिष्ठमानतत्त्वज्ञानादाप्तस्योपदेशो युक्त इति मतम् । तदा शरीरेण सहावस्थानादिति हेतुः सिद्धोऽभ्युपगतस्तावत् । स च पर- २० निःश्रेयसाकारणत्वं तत्त्वज्ञानस्य साधयत्येव । भाविशरीरस्येवोपात्तशरीरस्यापि निवृत्तेः परनिःश्रेयसत्वात् । तस्य च तत्त्वज्ञानसद्भावेऽप्यभावात् । अथ फलोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयकारणमित्युच्यते । तदप्ययुक्तम् । फलोपभोगस्योपक्रमिकविकल्पानतिक्रमात् । फलोपभोगस्योपक्रमिकत्वे कुतस्तदुपक्रमोऽन्यत्र तपोतिशयादिति तत्त्वज्ञानं २५
१.प्रवर्तते ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"