SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૦૨ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६. · अनन्तसुखमेव मुक्तस्य न ज्ञानादिकमित्यानन्दोपरोधेन सुखैक स्वभावाभिव्यक्तिमोक्ष इति ब्रह्माद्वैतवादिमतम् । ब्रह्माद्वैतवादिसमतस्य मोक्षस्य खण्डनमा “आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते" __इति वचनात् । एतदपि प्रमाणेन बाध्यत एव । ५ तथा हनन्तसुखं मुक्तौ पुंसः संवेद्यमसंवेद्यं वा । संवेद्यं चेत्, तत्संवेदनस्थानन्तस्य सिद्धिः । अन्यथानन्तस्य सुखस्य स्वयम्भुसंवेद्यत्वविरोधात् । यदि पुनरसंवेद्यमेव तत् । तदा कथं सुखं नाम । असंविदितस्य व्यवस्थापयितुमशक्यत्वात् । स्यान्मतं तेऽभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः । केवलं बाह्यार्थानां ज्ञानं नाभ्युपगम्यते, तदप्येवं सम्प्रधार्यम् । किं बाह्यार्थवेदनाभावो मुक्तस्य । बाह्यार्थाभावादिन्द्रियापायाद्वा । प्रथमपक्षे न सुखस्यापि संवेदनं युक्तम् । तस्यापि बाह्यार्थवदभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावोऽपि 1 अन्यथा द्वैतप्रसङ्गात् । अथ द्वैतवादावलम्बिना सतोऽपि वाधार्थस्येन्द्रियापायादसंवेदनं मुक्तस्येति मतम् । ताहि सुखसंवेदनमपि तस्य न स्यात् । अन्तःकरणस्य तद्राहकस्येन्द्रियस्यापायात् । अथान्तःकरणाभावेऽपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनमिष्यते । तर्हि बाह्यार्थवेदनमप्यस्तु तस्यातीन्द्रियज्ञानेनैवेति मन्यताम् । सर्वथा विशेषाभावात् । नैवमुक्तिरुपपद्यते ततो ब्रह्मवादिपरिकल्पितापि च ॥ एवमस्तु विजयकभूषणं जैनशासनमपास्तदूषणम् ॥ ३५०॥ सौगतास्तु केचिन्निराश्रयचित्तसन्तानोत्पत्तिर्मोक्ष इत्याचक्षते । तत्रा विद्यातृष्णारहितं चित्तं निराश्रयमित्यभिधीयते । बौद्धाभिमतमोक्षस्य अविटा रागदेषाभिलाषः। तृष्णा तु भाविभागा भिलाषः । अपरे पुनः “प्रदीपनिर्वाणवत्सर्वथा २५ चित्तसन्तानोच्छेदो मोक्ष” इति सझिरन्ते । तेषामुभयेषामपि मोक्षतत्त्वं खण्डनम् । अविद्या रागदेषाशित "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy